________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
153
न्दानुभवहेतुकपदार्थज्ञानेन इच्छा जायते । तश्चलनात्मकं कर्म प्रवृत्तिः। तत्स्वत्वज्ञापितात्तदितर ईश्वरः मायाव्यतिरिक्तः निकळङ्कः निर्गुणः निरवयवः नित्यानन्दात्मकः योगिनामप्यगोचरः । तावुभौ पतत्रिणी शरीरवृक्षं परिष्यज्य स्थितावित्यर्थः । क्लेशकमविपाकाशयो जीवः । क्लिश्यन्त इति क्लेशाः अविद्यादयः । वक्ष्यमाणानि अविहितानि नीषद्धद्रव्याण नश्वररूपाणि कर्माणि । वक्ष्यमाणानि-विपच्यन्त इति विपाकाः कर्मफलानि जात्यायुस्सुखदुःखभोगात्मकानि फलानि । तानि तामसगुणहेतुकलवणकटुरसद्रव्यादनहेतुकजातानि । तेषामाशयो निदानस्थानास्मकः मायाशवलितो जीवः । साशयस्थितजङ्घापद्मस्थितसहस्रसिराभिः आत्मेच्छायाः प्रयत्नशानात् गतागतप्रेरकपवनवशात्
"जङ्घाभ्यां पद्भयां धर्मोऽस्मि । विशि राजा प्रतिष्ठितः । प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यनेषु प्रतितिष्ठाम्यात्मन् । प्रतिप्राणेषु प्रतितिष्ठामि पृष्ठे । प्रतिधावापृथिव्योः प्रतितिष्ठामि यशे!"
इति श्रुतिप्रतिपादितशरीरेषु विशन् कर्म करोमीत्यर्थः ॥
ननु शरीराङ्गगतचेष्टादिकं आत्माधीनं, तेन परमात्मा सिसुधति । परमात्मनः इच्छाविषयकशानकार्य आत्मेच्छाविषयकशानपूर्वकं, शुद्धचैतन्यप्रेरितकर्मकार्यहेतुभूतत्वात् । यन्नैवं तन्नैवं यथा घटः । इत्यनुमानविधया परमात्मसदिः ।
स्रोतोमार्गस्थितसिराप्रेरितसर्ववर्णशापकाधारदेशस्थितकरप्रभवाष्टादशदळपद्मावलम्बकताल्चोष्ठपुटव्यापारादिकं सकर्तृकं का. यत्वात् घटवत् इत्यनुमानेन आत्मासद्धिः। तदर्थ शरीराङ्गचेष्टां व्याचष्टे-स्रोत इति ।
___1. बा. अष्टक II. प्रपा 6, 5, 25. AYURVEDA.
For Private And Personal Use Only