SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्नः 151 ननु शरीरावच्छेदकं चेष्टाश्रयमित्युक्तम् । तथा सात सर्वदा चेष्टाकरणप्रसङ्गात्, ईश्वरस्य सर्वशरीराङ्गव्यापकत्वेन सिद्धत्वात् तस्य चेष्टाकरणमेव प्रयोजकं भवतीत्यस्वरसादाह-हिताहितेति । हितप्राप्त्यर्थे अहितपरिहारार्थमेव स्पन्दनकरण ईश्वरप्रेरितम् । आत्मा मनसा संयुज्यते, मन इन्द्रियणे, इन्द्रियमर्थन, इन्द्रियाणां प्राप्यकारित्वनियमात् । ईश्वरः यदर्थकर्मकरणमिच्छति तावदानुभवज्ञानेन अनन्दानुभववान् भवतीत्यर्थः । ननु परिशुद्धरसादनं यस्यास्ति तस्योन्द्रयादयः सुप्रसन्ना भवन्ति । रसवदव्यादनं चेष्टाश्रयहेतुकं शरोराङ्गस्य रसादनपोषितत्वात् । तस्माच्छुद्धरसवव्यादनस्य चलनात्मकशरीरस्य च हेतुहेतुमद्भावयोरेव वक्तुं शक्यवात् इत्यस्वरसादाह-शुद्वति। शुद्धरसाहारजन्यधातुप्रेरितसिरागतपवनवशाचलनात्मकम् ॥ १२॥ तत्र वचनं आहार पचति शिखी दोषानाहारवर्जितः पचति । दोषक्षये च धातून्पचति च धातुक्षयेऽपि च प्राणान् ॥ एतद्वचनानुसारेण शरीरदाढर्थकरणं अङ्गप्रचलनं च रसादनादेव भवतीत्यर्थः ॥ ननु शुद्धरसादनं धातुपोषणमात्रं करोति। तेन रोगाभावात् पञ्चेन्द्रियाण्यपि स्वविषयविषयकविषयशानस्य शुद्धरसवव्यादनेन लाभात् तद्वति तत्प्रकारकत्वमपि गृहन्ति । तेन चलनात्मककोपकारकत्वं न स्यादित्यस्वरसादाह-जङ्केति। . For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy