________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
150
आयुर्वेदसूत्रे
तत्प्राणादिमन्न भवति, शवशरीरवत् । ईश्वरेच्छाधीना चेष्टा ईश्वरप्रेरितकार्याधीना भवतीत्यत आह-ईश्वरेति ।
ईश्वरप्रेरितचेष्टाश्रयं हिताहितकार्योद्देश्यविषयप्रवर्तकचेष्टाश्रयं शरीरम् ॥ ११ ॥
ईश्वरप्रेरितचेष्टाश्रयं कीदृशं चैतन्यं ? चक्षुर्वद्रूपग्राहकत्वाभा. वात्, श्रोत्रेन्द्रियवच्छन्दग्राहकत्वाभावात् । तस्माच्चैतन्यस्वरूपं गृहीतुमशक्यमित्याशयं मनसि निधायाह-ईश्वरोत ।
जन्यशब्दज्ञानं चेतनसद्भाव प्रमाणम् । तथा हि-तत्त. दङ्गाधष्ठितवर्णाः ताल्वोष्ठपुटव्यापारादिना वर्गात्मकाशब्दाः ईश्वरप्रेरितशब्दाः शरीराधजन्यत्वे सति जन्यव्यापारहतुकत्वात् । अङ्कुरादिवत्। ___ अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत् । इति ईश्वरसद्भावेऽनुमानं प्रमाणमिति तेन हेतुनोपलभ्यते । धीजभूमिजीवनसामग्रयां सत्यां कार्यमुत्पद्यत इति न तेनापीश्वरसिद्धिः । अन्व यव्यतिरेकाभ्यां अङ्करायुत्पादकदृष्टसामग्रीसत्त्वात् घटवत् । अङ्कुरादिवद्दष्टान्तसद्भावे प्रमाणम् । शरीरावच्छेदकं चेष्टाश्रयम् । चेष्टाश्रययोग्याङ्गानि बहूनि सन्ति । सर्वदा चलनप्रसङ्गस्यैवोपस्थितत्वात् । तवा सति अतिप्रसङ्ग एव स्यादित्यस्वरसादाहईश्वरोत ।
चेष्टास्वरूपं हिताहितप्राप्तिपरिहारार्थस्पन्दनम् । न तु स्पन्दनमात्रम् । तत्सर्व ईश्वरप्रेरितचेष्टाश्रयम्, तथा सति नातिप्र. सङ्गः। यस्य यावक्तर्मानुगुणभाग्यं यदधिष्ठानाधीनं तत्सर्व अनुभवयोग्यं कर्तुं प्रतिभूर्भवत्यिर्थः । प्रयोजकत्वात् चेष्टारूपेण ईश्वरसद्भावस्य प्रेरितत्वादित्यर्थः ।
For Private And Personal Use Only