________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
147
मदमध्यातिमात्रत्वाचतो विशेषः ॥ ५ ॥
श्वासानिलः इडामार्ग गत्वा मन्दमन्द सञ्चरन् शरीरं नीरोगं करोति । स एव मोक्षहेतुको भवति । तदनन्तरं मध्यमार्ग गत्वा नाभिप्रदेशपर्यन्तं मन्दमन्दं सञ्चरन् शरीरदाढर्थकारको मोक्षहेतुकश्च भवति । अतिमात्रगमनेन सुषुम्नामार्ग गत्वा अत्यन्तमुदरमापूर्यते चेत् तस्य शरीरपिङ्गलामार्ग गत्वा शरीरस्य निरतिशयमोक्षहेतुको भवति । तेभ्यो विशेषादभ्यासवशात् प्रयत्नाभावेऽपि सर्वदा यः कुंभकं करोति सः अरोगी भूत्वा राजयोगमार्गसम्पादनेन सर्वकर्मपरित्यागवान् भवति । तेनैव मोक्षफलमश्नुते । तत्र श्रुतिः
___" संन्यासयोगाद्यतयः शुद्धसत्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुव्यन्ति सर्वे " इति श्रुतिप्रमाणेन असंशयज्ञानगोचरवान्भूत्वा शरीरदाढर्यकर्मकरणद्वारेण सर्वविषयभोगानुपभुज्य तद्भोगविषयकपदार्थान्नश्वरानिति विज्ञाय सर्वदा आत्मविषयकज्ञानं इहलोकेऽपि सर्वदा परमानन्दानुभवहेतुकम् । स एव ततो विशेष इत्यर्थः । राजयोगोऽपि भवति । तस्य उपायेभ्यो मृद्वादिभेदभिन्नस्य उपायवतां विशेषो भवतीत्याह-मृद्विति ।
मृदुमध्यातिमात्रा इत्युपायभेदाः ॥६॥
पूर्वोक्तरीत्या मृदुमध्यातिमात्रगमनं रोगनिवर्तकद्रव्यानिवृत्तरोगनिवृत्तयर्थम् । अयमेवोपायः शरीरदाढचकर्मकरणद्वारा मोक्षफलप्रापको भवतीत्यर्थः ।
ननु यत्तु त्रयाणां मार्गाणां शरीरदायकर्मकरणपर्यन्तमपि उपायो भवतीत्युक्तं ततोऽधिकमार्गपर्यन्तगमनमपि उपायो. भवतीत्याह-मृद्विति ।
1 योग. I. 22.
For Private And Personal Use Only