________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
146
आयुर्वेदसूत्रे
षयकविषयेतरज्ञानंप्रति हेतुरेव समाधिरित्यर्थः । ननु परमात्मनो विभुत्वेन मनस आत्मना साकं धृढतरसंस्कारस्य स्वत एव सिद्धत्वादित्यस्वरसादाह-संवेग हाते ।
संवेगः क्रियाहेतुईढतरसंस्कारः ॥३॥
संवेगो नाम कारणम् । तस्य लक्षणं क्रियाविशेषमात्रवैलक्षण्यं तदवच्छेदकम् । स एव क्रियाहेतुर्भवति दृढतरसंस्कारोऽपि भवतीत्यर्थः । तरशब्देन सुतरां हेतुरित भावः ।
ननु एतत्समाधानमनुपपन्नं, तथा च श्रुतिः ---
“अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति । अनममृतं तमु जीवातुमाहुः" इति श्रुतेः विद्यमानत्वात् । एतत्प्रमाणप्रतिपादितसमाधेरदृष्टत्वादित्यस्वरसादाह --गतेति ।
गतागतोपायभेदवतां समाधिफलं चासन्नम् ।।
अत्र गतागतविषयकज्ञानमात्रं न विवक्षितम् । अन्नादनाभावे सति धातुपोषकशरीरपुष्टियस्यास्ति तस्येदं विवाक्षितम् । ते तु परमयोगिनो भवन्ति । तेषापवच्छेदकं गतागतोपायभेदज्ञानवत्त्वम् । गतागतरूपश्वासोवासाभ्यां शरीरदायोपायं, भिद्यत इाते भेदः अन्नादनाजातजनकयोगजन्यभेद इत्यर्थः । समाधेः फलं शरीरदाढर्यकरणम् । शरीरेण सर्वकर्माधिकारी भवति । शरीरं सत्कर्मादिमोक्षहेतुकं भवतीति भावः ।
ननु श्वासोछ्वासानिलयोर्गतागतत्वस्य शरीरिणां स्वत एष सिद्धत्वात् स्वतस्सिद्धकर्मणः विशेषविधि विना कथ शरीरदाढर्यकारकत्वं कथं वा मोक्षोपयोगिकत्वं भवतीत्याशङ्कयाहमाद्वात।
For Private And Personal Use Only