________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदे चतुर्थप्रश्नः
ननु रसादीनां धातुपोषकत्वं वक्तमशक्यम् कुण्डलिनीस्थितश्वालोछ्वासपवनस्यैव अमृतप्रदत्वेन प्रतिपादितत्वात् । रसादनिां धातुपोषकत्वं कथं स्यादित्यस्वरसादाह-गतेति ।
गतागतामृतवशादागतसमाधिक्रियया योगसानिध्यम् ॥१॥ __कुण्डलिन्याः अनिलानलचक्रात्मकत्वादेव श्वासपवनस्य अनिलचक्रात्मकस्य प्रथमप्रयाणगतस्य ऊष्मरूपत्वादेव शिर:कमलस्थामृतमाहर्तुं शक्यत्वादित्यर्थः । तस्मादमृतवशाद्धातुपोषकत्वं समाधिहेतुकमिति कृत्वा तक्रियया योगानां सानिध्य भवतीत्यर्थः । तस्माद्योगस्य धातुपोषकत्वं परम्परया प्रतिपादितमिति भावः ।
धातूनां पोषणंप्रति रसादि हेतुर्भवतीति रसादीनां हेतुत्वप्रतिपादन रसवव्यादनेन भाव्यम्, तन्नाद्यदनस्य अन्वयव्यतिरकाभ्यां धातुपोषणप्रति हेतुत्वप्रतिपादनात् । समाधयो धातुपोषका हाते कथं प्रतिपद्यत इत्यस्वरसादाह-तीवेति ।
तीव्रसंयोगाख्यामासन्नः समाधिः ॥२॥ .
मनस आत्मनिदिध्यासनस्य तीबसंयोगत्वं नाम इतरार्थज्ञानज्ञापकसामग्रयसमर्थितत्वे सति आत्मसमवेतत्वम् । तेषामात्मवि
। गतागतानिलवशा-A & B. योग. I. 1, 21 AYURVEDA
19
For Private And Personal Use Only