________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
144
आयुर्वेदसूत्रे
द्विसहस्रसिराशाखावत् पादपद्ममूलकम्॥९॥
द्विसहस्रसिराशाखिनः पादपद्मालवालं सिराङ्कराणामाधारक पादपद्मप्ररोहाङ्कुराणामेव अमृतमाहरत् धातुपोषकं भवतीत्यर्थः । द्विसहस्रसिरोद्भवाकराणां सप्तधातुपोषकत्वेन शरीराधारकत्व कथं स्यादित्यस्वरसादाह-सप्तेति ।
सप्तधातुमयं शरीरम् ॥ ९९ ॥
षड्सा इत्यत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः। ततः षट्सङ्ख्याद्रव्यमाश्रित्य तिष्ठतो गुणवत्पोषकत्वस्य सुप्रसिद्धत्वात् । धातुर्नाम ‘रसासृङ्मांसमेदोस्थिमजाशुक्लानि धातवः' इति । ततो धातुमयं शरीरामित्युक्तम् ॥ - इदानी प्रतिपादितप्रश्नो योगशास्त्रं भवति । तन्मध्ये सप्तधातुमय शरीरमिति प्रतिपादनं योगाभ्यासस्यापि धातुपोषकत्वमेव फलमिति द्योतनार्थ तथा प्रतिपादितम्-आयुर्भवतीत्यर्थः । धातवः रसादिपोषिताः शुद्धरसद्रव्योपजीवकत्वात् । तस्माद्धातूनां रसादिपोषितत्वं सुप्रसिद्धमिति भावः ॥
इत्यायुर्वेदस्य तृतीयप्रश्नस्य भाष्यं योगानन्दनाथकृतं सुप्रसिद्ध महाजनसम्मतं प्रतिसूत्रव्याख्यानपूर्वकं आयुर्वेदभाष्यं लोकोपकारक
___संपूर्णम्.
For Private And Personal Use Only