________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्नः
143
आपादमस्तकं सञ्चारितव्यानपवनोऽपि पोषको भवति । अवोंत्पादकपादपद्मं शाखावेलारूपम् । तावत्पर्यन्तं सहस्रारपद्मगतामृतं रक्षकं भवतीत्याह-तदिति ।
तत्पादपद्माधारे सरित्प्रवहति ॥ ९५ ॥
पादपद्मपर्यन्तं सिरासन्धानमनुसृत्य अमृतप्रवाहो भवतीत्यर्थः।
ननु कुण्डलिनीगतश्वासोच्छवासमहिम्ना आगतामृतस्य आ. धारपझालवालपर्यन्तं प्रवाहकरणस्योचितत्वात् कर्थ ह्याधारपद्मपर्यन्तं प्रवाहकरणं नोपपद्यत इत्यत आह -मांसेति ।
मांसानुसृतसिरामार्गगतपवनेन कलाः पूरयन् अमृतं सेचयेत् ॥ ९६ ॥
तन्मार्गमनुसृत्य इडापवनेन पादपद्मपर्यन्तं सेचयेदित्यर्थः । तेन तदाधिष्ठानस्थितवर्णदेवताः सन्तोष्य पालयेदित्यर्थः । ननु रसामुग्धातुपवनेन अमृतपोषकत्वं तद्धातूनामेवेति वक्तव्यम् । तदितररक्तधातोरभृतपोषकत्वाभावेन जीवनं नोपपद्यत इत्य. स्वरसादाह-मांसेति ।
मांसानुसतसिराभावास्सन्ति'॥ ९७ ॥
इडामार्गगतश्वासपवनः सहस्रारकमलस्थामृतमाहरन् मांसधातुं सन्तर्प्य शरीरपोषको भवतीत्यर्थः । रसासृग्धातुपवनस्य शरीराङ्गावभागकार्यकारकनियमस्थापकत्वात् मांसधातुगतसिराणां अप्रयोजकत्वन रक्तधातुपोषकत्वं पवनस्य कथं सङ्गच्छते । पवनसिरासृग्धातुमात्रप्रदान चरन् तत्पोषकत्वमात्रस्यैवोचितत्वात् न रक्तधातुपोषको भवतीत्यस्वरसादाह-द्वीति ।
1 A.B. कोशेषु एतन्न दृश्यते.
For Private And Personal Use Only