________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
142
आयुर्वेदसूत्रे
तत्पोषकत्वं वक्तुं शक्यते, तस्य कुण्डल्याधारमात्रोपयोगिकत्वात्, सर्वशरीरव्यापकत्वाभावेन तत्पोषकत्वमपि न रोचत इत्यस्वरसादाह-सिरोति ।
सिरापथगतपवनशिशरःकमलस्थामृतमाहरसिञ्चति ॥ ९२ ॥ . सिरामार्गेषु सर्वदा सञ्चारभूः पवनो व्यानपवनस्य मूलाधारस्थितत्वेन तत्र स्थितामृतमाहरन् शरीरशाखिबीजोत्पादकपादपद्ममूले पूर्वरसासृग्धातुषु चरन् पवनः प्रभवतीत्यर्थः । . ननु सकलामृतात्मकानलानिलचक्रात्मककुण्डल्युद्भवप्रकाशमानप्रथमप्रयाणाधिगतश्वासानिलोष्मणो जातामृतमाहत्य उच्छासानिलेन तत्सर्व सङ्गाह्य धातुसन्तर्पणं करोतीति यत्तदेव शरीरदायोपकारकं भवतीति व्यानवायुना पादपद्मपूरकेन किं फलं भवेदित्यस्वरसादाह-शरीरोति ।
शरीराङ्करशाखानामादिभूतं तथा ॥ ९३ ॥
पञ्चशाखं शरोरमिति शरीरमेव अङ्कुरं पञ्चशाखान्वितं मूलाधिष्ठानपद्माधारभूतम् । तस्य शाखा एव अवयवा इत्यर्थः ।
ननु मूलाधारपद्ममेव शरीराङ्कुरस्य आलवालमित्युक्तम् । तत् तदङ्गास्थितवर्णानां तत्तदधिष्ठानदैवताना अमृतपोषकत्वभावनचलनात्मककर्मोपकारकं नोपपद्यत इत्यत आह-तत्तदिति ।
तत्तदधिष्ठानवर्णदेवतानां सिरामार्गगता षकम् ॥ ९४ ॥
तत्तद्देवतात्मकं अकारादिक्षकारान्तं तत्तदङ्गाधिष्ठानाधिष्ठितम् । तस्य तत्तत्सिरामार्गगतामृतं पोषकं भवति । तस्थ
1 तथा। 'पञ्चशाखाः पञ्चाङ्गला: ' इत्यधिकः पाठः-A & B.
For Private And Personal Use Only