________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्नः
141
यथा घटः, इत्यनुमानविधया शरीरदायप्रयुक्तयोगसम्पादनेन मोक्षप्राप्तिर्भवति । “अङ्गष्ठमात्रः पुरुषः” इत्यत्र लिङ्गशरीरं पादमात्रम् । तत्र श्रुतिः
“पादोऽस्य विश्वा भूतानि त्रिपाद
स्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषः" इति । एषा श्रुतिः अङ्गष्ठमा प्रतिपाद्य तिष्ठति। स एवेश्वरो भवति । सोऽपीश्वरः त्रिपादेन दिवि स्थितामृतमाहृत्य स्वशरीरं सन्तयं जगच्छरिमापे वहति । विरापेश्वरगोचरझानसाधक अन्तरिन्द्रियात्मगोचरज्ञानसामग्रीसम्पादनापेक्षया जगच्छरीरात्मविषयकज्ञानगोचरज्ञानग्राहकसामग्रया आत्मसाक्षात्कारो भवेदित्यर्थः॥
ननु योगिनामपि मूलाधारमादिभूतं सकलधातुपोषकं श्वासोच्छ्वासाभ्यां शिरस्स्थितममृतमाहृत्य शरीरसन्तर्पणं विधत्तेतस्य सर्वधारणत्वात् । योगं विनापि तत्कर्म कर्तुं शक्यत एवेत्य, स्वरसान्तरमाह-मूलेति।
मूलाधारमादिभूतं सकलधातुपोषकम् ॥९॥
मूलाधारस्य कुण्डलिनीरूपस्य अनिलानलचक्रात्मकस्य तनिष्ठश्वासोच्छासाभ्यां धातूनाममृतादनम् । योगाभ्यासजन्यपवनेन मूलाधारमादिभूतं यावत्कालं धातुदायकरणं जठरानिलप्रदं चिरायुःप्रापकं यावदिन्द्रियाणां अविषयकज्ञानानुभवसार्थकरणं च लभ्यत इत्यर्थः।
ननु शरीरपादपः अमृतजलपोप्योपकारकः । अमृतातिविरिकव्यानपवनस्य शरीरव्यापकतावच्छेदकत्वात् । ननु मूलाधारपद्मस्य सकलधातुपोषकसकलशरीरव्याप्यपवनसंयोगे सति
For Private And Personal Use Only