________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
140
आयुर्वेदसूत्रे
मधुररसस्तु रसासृग्धातुचरपवनस्य अविकारं कुर्वन् कुण्डलीस्थितः श्वासोच्छासाभ्यां शिरःकमलस्थामृतमाहृत्य आपादमस्तकं तर्पयन् इडामार्गगमनेन पवनेन कुम्भकं कृत्वा अङ्गष्ठपयन्तं सञ्चार्य तत्तदङ्गं प्रसिञ्चदित्यर्थः ।
ननु कला प्रबला सती मधुरसजन्यपवनस्य श्वासोच्छासानिलाभ्यां शिरस्स्थितामृतमाहृत्य शिरस्सन्तर्पणं विधत्त इति वक्तव्यम् । कला अबला सती तेन आपादमस्तकसन्तर्पणेन धातुपोषणं कथं विधत्त इत्यस्वरसादाह-तत्रेति ।
तत्र स्थितकला दशदलकमलं विकासयन्ती प्रचलति ॥ ८॥
कुण्डल्युद्भवपित्तकलाधारदशदळपद्मं विकासयन्ती अमृतं विसृजतीत्यर्थः।
ननु पवनस्तु शिरःकमलस्थामृतमाहृत्य धातुसन्तर्पणं करो. तीत्युक्तम् । इदं तु समाधिसामग्रीसम्पादनप्रकरणम् । समाधिफलं तु आत्मसाक्षात्कारानुभवरूपम् । तत्सामग्री शरीरविकाराभावकार्य सम्पादयति । तेन आत्मसाक्षात्कारो लभ्यत इत्यस्वरसं झापयन् अवतारान्तरमाह-अङ्गुष्ठति ।
अङ्गष्ठमात्रः पुरुषोऽङ्गष्ठं च समाश्रितः॥८९॥ ईश्वरस्सर्वस्य जगतश्शरीरं वहति ॥ ९० ॥
अमृतेनापादमस्तकं सन्तर्पणं रोगाभावकार्यसम्पादकसामग्रीप्रतिपादितशरीरदाय जन्यं समाधिकार्यहेतकत्वात्, यन्नैवं तन्नैवं 1 ईश्वरस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् । शरीरं वहति । A&B.
For Private And Personal Use Only