________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
148
आयुर्वेदसूत्रे
मृदुसयागो मध्यमसंयोगस्तीव्रसंयोगश्च ॥ ७॥
इडामार्गगमनमन्दानिलेनापि कुण्डल्युद्वधिकरणं उपायो भवति । एवं सुषुम्नामार्गगमनपवनेन कुण्डलीसंसर्गजातकुण्डल्युद्वोधकर्मणा च माक्षोपायो भवति । तच्छरीरदायसम्पादनसामग्री उपायो भवतीत्यर्थः । तत्तिगुणहेतुकानिलानां शरीरदायकरणमात्रस्याप्रयोजकत्वात् तद्गुणोपायव्यतिरिक्तकर्मणा योगाग्निसन्धुक्षणेन बहुजन्मार्जितपापसङ्घातं भस्मीकृत्य मोक्षहेतुर्भवतीत्याह-विधेति । त्रिधा भेदनेन वायोर्नवयोगिनो भवन्ति ॥६॥
पवनस्य त्रिविधविकारत्वफलं क्रियते । मृदुपवनस्य संयोगः मृदुपवनकुण्डलीसंयोगः । मध्यमवेगपवनस्य कुण्डलीसंयोगः । तीव्रगतिमार्गानिलस्य कुण्डलीसंयोगः तीव्रसंयोगः । मध्यमानिलस्य संयोगः नाभेरूलप्रदेशस्थं हृत्कमलपर्यन्तं आगत्य तंत्रस्थस्य निरुद्धपवनस्य अन्तःपदमार्गमवलम्ब्य गच्छतः आत्मनि समवस्थानम् । स एव समाधिः । आत्मज्ञानसम्भवालभ्यते । स एव मध्यमसंयोगः । तीवसंयोगः तदुपरि शिरःकमलपर्यन्तम् । तदुपरि सुषुम्नामार्गादागतपवनगतिहेतुकं सिरामार्गपूरणं सकलशरीराणामायुष्कारकम्, तत्कर्मणः सकलशरीरोपकारकत्वात् । शरीरारोग्यकरणार्थ नवप्रकारो भूत्वा शरीरं संरक्षतीत्यर्थः ।
ननु बहिःपवनं इडापिङ्गलासुषुम्नामार्गमावृत्य उदरमापूर्य शरीरारोग्यमात्रोपकारकः समाधिः तस्य चलनस्य प्रधानाङ्गोपकारकत्वाभावात् । चलनात्मकपवनस्य सिरापूरणमात्रप्रयोजकत्वेन "एते जङ्गमाः" इति कथं वक्तुं शक्यत इत्यस्वरसादाह-पश्चेति ।
For Private And Personal Use Only