________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
134
आयुर्वेदसूत्रे
ननु भोगायतनं शरीरमिति प्रसिद्धम् । तथा सति विषय. मात्रफलोद्देश्यकार्यकारणविषयनाश्यैकनाश्यं इति तनिषेधुमशक्यम् | यावद्विषयानुभवकाल एव भोगकाल इत्याशयं मनसि निधायाह-भोगेति ।
भोगायतनं शरीरम् ॥ ७९ ॥
सर्वार्थविषयकभोग्ययोग्यानां द्रव्याणां आयतनम् । सुखदुःखानुभवो भोग इति दुःखस्यापि भोगयोग्यविषयकामनात्मकद्रव्योपलम्भकत्वात् । तस्माद्भोगायतनं शरीरमिति । शरीरत्वस्य भोगायतनत्वावच्छेदकत्वादिति वक्तुं शक्यत्वात् ।
ननु सुखविषयकप्रवृत्तिकमनोविषयकसुखानुभवज्ञानविषयकप्रवृत्तिमुद्दिश्य प्रवृत्तेस्तद्विषयानुभवजानन्दः मत्कामनाविषयकः दुःस्त्रविषयकशानस्य मत्कामनाविषयकत्वाभावात् । तदर्थमेव भोगोपकार्यजनकसंपादनसामग्रथैव फलितार्थत्वात् । __ननु सुखस्यापि दुःखानुषङ्गत्वात् सुखमपि दुःखमेव । विषयदुःखानुभवस्तु दुःखजनककर्मव्यतिरिक्तकर्मणा साध्यः । तस्मादुक्तरीत्या आनन्दहेतुकं बाह्येन्द्रियविषयोपलब्धिशानानुभवकार्य न भवेदित्यस्वरसादाह-तदिति । 'तत्परमपुरुषख्यातेर्गुणवैतृष्ण्यम् ॥२०॥
तदेव परमपुरुषार्थः, यन्नित्य द्रव्यजन्यज्ञानविषयकज्ञान आनन्दहेतुकं भवति, सा ख्यातिः सच्चिदानन्दात्मिका । आनन्दविषयकशानं यस्यास्ति स एव जीवन्मुक्त इत्यभिधीयते । स सर्वदाऽऽनन्दानुभववान् भवति । मत्प्रवृत्तिस्तु दु खव्यतिरिक्ता, कामनाप्रयुक्तत्वात्, सुखात्मिका कामना परमपुरुषार्थिका । गु
1 तत्परं पुरुष. योग I. 16.
For Private And Personal Use Only