________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्नः
__133
शरीरस्य ऐहिकफलं मोक्षफलं च । तयोवैराग्यमेव उभयफलं विधत्त इत्याह-ऐहिकेति । . ऐहिकामुष्मिकविषयानुभाव्यभोगैकनाश्यमिति ज्ञानं वैराग्यम् ॥ ७६ ॥ __ अविषयानन्दात्मकनैरन्तर्यज्ञानानन्दहेतुकं वैराग्यम् ॥ ७७ ॥
ऐहिकामुष्मिकफलजन्येतरपदार्थविषयकफलान्युद्दिश्य आ. स्मा अनुभवविषयकमनोजन्यत्वात् तद्वैराग्यनैरन्तर्यज्ञानानन्दजन्य विषयानन्दानुभवं विहाय आत्मज्ञानानुभवः परमपुरुषार्थ इति इतरविषयकशानानुभवं निरस्यति । ऐहिकामुष्मिकफले नाश्ये इति ज्ञान वैराग्यम् । ऐहिकामुष्मिकफलं विषयानुभाव्यं तत्तुच्छं कर्म प्रयासादनुभवे सति तन्नाशात् । तस्मादधिकफलदं वैराग्यमेव हि मोक्षफलहेतुकं भवतीत्यर्थः । ___ ननु परमात्मनोऽतीन्द्रियत्वेन इन्द्रियार्थसन्निकर्षाभावान् आत्मविषयकज्ञानाभावात् तज्ज्ञानविषयकानुभवानन्दस्सुतरामप्रसिद्ध एव, किन्तु इन्द्रियार्थसन्निकर्षाद्याशार्थोपलब्धिः सैव सुखविषयकज्ञानानुभवोपलब्धिश्चेत् तज्ज्ञानमेव आनन्दानुभवहे. तुकम् । तदेव कार्य यावद्धात्विन्द्रियदाऱ्यांपादकशुद्धरसानादनजन्यज्ञानं आनन्दहेतुकमिति प्रमाणत्रयोपलब्धिरित्यत आहतस्मादिति।
तस्माद्धातवस्तद्रोगभूम्यावष्टम्भाः ॥ ७८ ॥
इन्द्रियार्थसन्निकर्षजन्यज्ञानं आनन्दहेतुकमिति उक्तम्। तस्मादिति तत्कारणवशात् धातवः पञ्चेन्द्रियाणि तद्रोगकार्यकारकाणीत्यर्थः ।
For Private And Personal Use Only