________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
132
आयुर्वेदसूत्रे
• आदरातिशयोद्भूतभूयोभूयोनिरीक्षायोगादिषु भूमिः ॥ ७२ ।।
तत्र भूयो निरीक्षणात् स्वरूपं च प्रतिपद्यते। परमानन्दहेतुकत्वात् इह लोके परमसुखप्रदानत्वात् भूयोनिरीक्षणयोगादिषु भूमिः अपरिमितानन्दस्य भूरित्यर्थः ।
ननु आत्मविषये यावद्विषयनाशे सति तमाशादित्यस्वरसादाह-ताामात ।
तां निष्ठाय दद्यात् ॥ ७३ ॥
सालङ्काररूपादिविशिष्टां कन्यां यो दद्यात् सत्कुलप्रसूताय श्रोत्रियाय, कन्यादाने यः प्रवर्तते तस्य सुखं मोक्षफलं लभ्यते, ऐहिकसुखमपि भुत इत्यर्थः ।।
कन्यादानफलमाह प्रियेति । प्रियैव भवति ॥ ७४॥
कन्यादानफलप्रदानस्य प्रतिभूः ईश्वगे भवतीत्यर्थः । ईश्वरप्रीत्यर्थ यः कन्यादानं करोति तस्य ऐहिकफलमामुग्मिकफलं च दीयत इत्यर्थः।
ननु कन्याजननमेव कामयन् स्वकर्मक्लेशचोदितस्सन् ईश्वरप्रीत्यर्थ दानं करोति । तेन ईश्वरस्सुप्रीतो भूत्वा स्वयमेव प्रति. भूस्सन् फलं ददातीत्युक्तम् । तत्र कन्यादानकर्मणः ईश्वरप्रीति. रेव फलं भवति । तेनापि तस्य किं फलमासीदित्यस्वरसादाहनेहति।
नेह पुनरागछति ॥ ७५ ॥ ___ यत्तस्य इहलोकसुखदुःखादिकं तदीश्वरो नाददीत, ईश्वरकैवल्यं पुनराददीत । इहलोकें प्रति स पुन गच्छति गर्भदुःखादिकं न भुङ्क्ते । तस्माद्योगाभ्यासवशात् सप्तधातुमयं शरीरमिति
For Private And Personal Use Only