________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्न:
131
marr-rrr
स्त्रीपुंसोर्मध्ये पुत्रोत्पादकहेतुभूतरेतस आधिक्यं पुत्रजननहेतुकम् । पुत्रिकोत्पादनहेतुभूतं रक्ताधिक्यं पुत्रिकाजननहे. तुकम् । स्वस्माद्भिन्नमूतरेव पुत्रादिरित स्मृती। मोक्षार्थिनः प्रवृत्तिः पुत्रिकाजननसामग्रीसंपादनपूर्विका दानयोग्यकन्याजननसामग्रया एव हेतुत्वात् । यन्नैवं तनैवं यथा घटः । पुत्रिकाअननसामग्री सम्पन्नपुत्रिकाजननसामग्री स्वसुखहेतुकमिथुनानुभवकार्योपकार्यकत्वात् । प्रजाजननसामग्री लौकिकसामग्रीसंपादनं विना कथं लभ्यत इत्यस्वरसादाह-प्रकृतीति ।
प्रकृतिपुरुषौ पितराविति स्मृतौ ॥ ७० ॥
तथा सति गुणविशिष्टपुरुषत्वात् मायाशयलित ईश्वरः आमुष्मिकफलं दत्त इत्यस्वरसादाह-वृत्तीति ।
'वृत्तिव्यवहितस्वरूपनिष्ठमनउत्साहात्पुनःपुनरभिनिवेशनं योगाभ्यासः ॥ ७१ ॥
वृत्तिव्यवहितपुरुषः औपाधिकसंसर्गजातः प्रजाजनकसंसगेहेतुभूतत्वात् । स्वभावतः तस्य गुणप्रोतद्रव्यत्वादेव वृत्तिव्यव. हितत्वं भवति । तदेव तत्स्वरूपम् । तस्मिन् निहितं मनः । तस्य मनस उत्साहः प्रीतिः। प्रीतेरेव हृदयेऽभिनिवेशनम् । इतरपदार्थेषु विरागस्सन् य आत्मानं ध्यायति स तं ध्यातारं संसारसागरनिमग्नं तारयति । तदेवोत्तमफलम् । तदर्थमेवायुर्वेदप्रवृत्तेः प्रयोजन । । इदमेव बहुपुरुषार्थप्रदानहेतुकं भवतीत्यर्थः । यस्य मनस उत्साहो जायते तस्य मनसः पुनरभिनिवेशनं तृप्तिकारकम् । सर्वदा अभ्यासपाटयवशात् सर्वस्मिन्विषये अध्यात्मनिष्ठा मनः प्रसाद्य मोक्षप्रदा भवति ।
1 वृत्तिर्व्यवहित-A & B
For Private And Personal Use Only