________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
130
आयुर्वेदसूत्रे
• ननु बाह्येन्द्रियविषयज्ञानगोचरशाने वैराग्यं मनोविषयक आत्मविषयज्ञानहेतुकं भवतीति तत्र बाह्येन्द्रियविषयज्ञाननिष्ठभ्रमाभावानुभवग्राहकसामग्रयेव भ्रमोत्पादकसामग्रीव्यतिरिक्तसामग्रीजन्येति वक्तव्यम् । तथाहि रोगाभावकार्य पञ्चेन्द्रियनिरोधनजन्ययोगाभ्यासपवनवशात् भवति । तथा सति धातवो बढतरास्सन्तः ? रोगाभावकार्यकारणवशात् श्रुतिप्रतिपादितफलं लभ्यत इत्यस्वरसादाह-- यत्कालेति ।
यत्काले यद्योगे 'यथाविधि फलप्रदाः प्रजाः प्रजायन्ते ॥ ६ ॥
तत्संयोगजातधातवः प्रवर्तकाः ॥ ६ ॥ (यां कामयेत दुहितरं प्रिया स्यादिति । 'तां निष्ठाय दद्यात् । प्रियैव भवति । स न तु पुनरागच्छति ।)
अत्र तु अरोगत्वसम्पादनवशात् शतायुः पुरुषः शतेन्द्रियत्वं च लभते।
ननु मातापित्रोः दौहित्रजननं मोक्षकरम् । तयोर्धातुदाळकरणस्य आवश्यकत्वेन रोगाभावकार्यकरणद्वारा मोक्षप्राप्तिर्भवतीति दुहितृशिशुस्साक्षात्सामग्री स्त्रीप्रयुक्तरक्ताधिक्यसामग्रया भवतीत्यस्वरसादाह - स्त्रीपुंसाविति।
स्त्रीपुंसावात्मभागौ भिन्नमूर्तेस्सिसृक्षया॥६९॥ ____1 यथाविधि फलप्रदानुप्रजाः A&B. * कुण्डलान्तर्गतत्राणि A. B. कोशयोरत्रैव पठितानि । व्याख्याता तु पृथकृत्योत्तरत्र 132 पुटे व्याचष्टे ।
For Private And Personal Use Only