________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्नः
129
कार्य च-पाचकपित्तेन स्वयमपि पञ्चधा भूत्वा पाचकपित्तमाप पञ्चधा कुर्वन् अन्नं गृह्णाति, पचति, विवेशयति । सारकिट्टतया भुक्तानं विभज्य मुञ्चति । आशयप्रवेशं करोति । स सर्वशरीरं व्याप्य तिष्ठति । उदानवायोश्च प्रयोजनं-नासादिपर्यन्तं सञ्चरन् वाक्प्रवृत्तिं करोति । बलवर्णयोश्च वृद्धिं विधत्ते । समानवायोश्च प्रयोजनं जठरानिलस्य समीपे स्थितस्सन भुक्तानरसं पक्वान्नं कायं प्रवेशयन् प्रतिमुञ्चति । एवं पञ्चवायूनां फलम् । तेषां मोक्षफलप्रदानस्य अनावश्यकत्वादित्यस्वरसादाह-अदृष्टयेति ।
अदृष्टनेन्द्रियेणात्मा मनसा संयुज्यते ॥६५॥
अदृष्टः ईश्वरः, तेन प्रेरितस्सन् अर्थसंसर्गगोचरेन्द्रियेण तद्विषयकगोचरफलं विज्ञाय औपाधिकहेयोपादेयविधिकलं वि. शाय मन इतरपदार्थविषयकविज्ञानं विसृज्य आत्मज्ञानगोचरज्ञानफलं आमुष्मिकफलं च जीवात्मनो विधत्ते । एवं मनः आत्मसंयोगजन्याधिकफलं जीवस्य प्रयच्छतीत्यर्थः ।
ननु आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां प्राप्यकारित्वनियमात् । तत आत्मा इन्द्रियविषयकज्ञानगोचरफलं भुङ्क्ते। न तत्फलमामुध्मिकं विषयसंयोगजन्यज्ञानफलस्य बलवत्त्वात्, इत्यखरसादाह-सर्वेति ।।
सर्वधातवः सत्ववशं गताः ॥६६॥
मनोनिरोधनेन श्वासोच्छासनिरोधनेन च मुखमार्गेण बहिः पवननिरोधनेन च खोदरपूरणकर्मकरणेन च पृष्ठमार्गेणापि बहिःपवनापहारणम् । तत्पवनं नाभिप्रदेशेऽपि कृतकर्मकरणान्तरम् पवनेन कुलिस्थितसिरामार्गस्यानुबन्धनं निश्वासोच्छासानां कठप्रदेशनिरोधनं आपादमस्तकं सञ्चरतीत्यर्थः । AYURVED.),
17
For Private And Personal Use Only