SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 आयुवदसूत्र प्रत्युत स व्याधिकारको भवति । एतेन चिरायुष्ट्रं कथं प्राप्यते ? इत्यस्वरसादाह-तस्मादिति। तस्मात्प्राणादिपञ्चकफलीभूतं कार्यम् ॥ ६४ ॥ अस्यार्थः--शरीरं दोषधातुमलाशयात्मकम् , प्राणादिपञ्चकोपजीव्यप्रकृत्याधारकत्वात्, यन्नैवं तन्नैवं, यथा घटः । चष्टाश्रयं शरीरमिति चेष्टाश्रयत्वं शरीरावच्छेदकम् । चेष्टा तु सा यद्धिताहितप्राप्तिपरिहारार्थं स्पन्दनरूपा । तस्मात् शरीरं प्राणादिपञ्चकं फलीभूतं भवति । सा चेष्टाश्रया प्रकृतिरिति । इदं सर्व श्रुत्या प्रतिपादितम् । सा श्रुतिः- “प्राणापानव्यानोदानसमानसप्राणा श्वेतवर्णात्मिका सा त्रिपदा व्याहृतित्रयात्मिका"। तत्र श्रुतिवचन प्रमाणम्---" भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः। रतैर्महच्छिरो भवति । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते।” इति तस्मात् प्राणादिपञ्चकं संरक्षणीयं रोगाभावकार्यहेतुकं मोक्षहेतुः कथं भवेत् । यस्य प्राणादिपञ्चक खवशं भवति, तस्य चिरायुष्वमपि लभ्यते । तस्मात्प्राणादिपश्वकं फलीभूतं कार्यमित्युक्तम् । तस्माच्छुद्धरसवव्यादनं श: रीरसंरक्षणं करोति, विरसवव्यादनं प्राणघातं करोतीति पर्यवसितार्थः । ___ ननु प्राणादिपञ्चकस्य फलीभूतं नाम-प्राणवायुः देहचलनकर्म विधत्ते । स पवनः आवकृतस्सन् पादाभ्यां गतागतत्वं च कर्म निमेषोन्मेषादिकं च आपादमस्तकं कर्म कुर्वन् चलनात्मकं कर्म कुरुते । अपानवायोश्च प्रयोजनमस्ति-मेदगुदप्रदेशेषु स्थितस्सन् स्वयमविकृतस्सन् तथा विक्रियते । व्यानानिलस्य For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy