________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्नः
णवैतृष्ण्यं नाम मधुररसादनप्रयुक्त पुरुषविषयकज्ञानजन्यज्ञानं आनन्दहेतुकमिति विवक्षितमित्यर्थः । पुरुषख्यातिः परमपुरुषज्ञानविषयकख्यातिः । विषयज्ञानानन्दहेतुकवैराग्यं बाह्येन्द्रियविषयक - ज्ञानं परमपुरुषगोचरं न भवति इन्द्रियार्थसन्निकर्षाभावात् किं तु अन्तरिन्द्रियगोचरज्ञानविषयकं यावद्विषयकज्ञानं यावदनुभवहेतुकं भवेदित्यस्वरसादाह--यावदिति । 'यावदिन्द्रियविषयज्ञानानां यदार्थोल्लेखिभावना क्रियते स वितर्कः ॥ ८१ ॥
तर्कों विचार इत्यर्थः । यावदिन्द्रियविषयज्ञानानां याव वद्विषयानुभव आनन्दहेतुक इति विचारः, तर्कसहकृतज्ञानकार्यकर्मेत्यर्थः । यदार्थोौल्लेखि भावनाक्रमस्तर्कशानेन भाव्यः त द्भावनायाः यथायथं यावदिन्द्रियविषयकज्ञानानां यावद्विषयानुभव आनन्दहेतुको भवतीत्यर्थः ।
,
135
ननु यावद्विषयानुभवज्ञानं यावदानन्दहेतुकम् | परमात्मानुभवज्ञानं परमानन्दहेतुकं शरीरस्य उभयोरप्यायतनत्वात् । तत्र विषयानुभवस्य विषयेकनाश्यत्वेन परमात्मानुभवस्य पर मात्मविषयकत्वेन अयं नित्यानन्दानुभव इत्याशयं मनसि निधायाह- पूर्वेति ।
पूर्वापरानुसन्धानशब्दार्थोल्लेख भावना निर्वि
कल्पः ॥ ८२ ॥
बाह्येन्द्रियज्ञानानुभववान् सवितर्कः । सवितर्को नाम सविकल्पः सविकल्पज्ञानानुसन्धानमेव परमात्मानुसन्धानम् । तदनिर्वाच्यज्ञानविषयकम् । शब्दार्थोल्लेख भाषनाशून्यत्वम् । तदेष निर्विकल्पकर्म । देवदत्तां जीवन्मुक्तो भवितुमर्हति परमात्मयोग. 1. 32.
For Private And Personal Use Only