SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 आयुर्वेदसूत्रे ननु इदं पुरोवर्तीन्द्रियविषयकं प्रमाप्रमागोचरोभयज्ञानप्राहकसामग्रीविषयकं शुक्तिरजतोभयविषयकज्ञानग्राहकसामग्रीजन्यत्वादित्यस्वरसादाह-सदिति । सदसत्सम्बन्धविवेकविशिरहितज्ञानविषयकम्। आस्मिान्वषये देवदत्तस्य ज्ञानं शुक्तिविषयकम् । यज्ञदत्तस्य ज्ञानं रजतविषयकम् । एतस्मिान्वषये सदसज्ज्ञानगोचरज्ञानमिदमिति निर्णेतुमशक्यत्वात् इदं ज्ञानं न रोगजन्यं, किं तु अन्यप्रयुक्तवाक्यजन्यं, तदन्यज्ञानस्य रोगजन्यत्वात् । ममोत्पन्नशानस्य अरोगजन्यत्वादेव सदसद्विधिविरहितज्ञानविषयकः स एव सं. शयो भवतीत्यर्थः। इतः परं कैश्चिव्याख्यातं व्याचष्टे-सच्छब्दस्य पुरोवार्तशुक्तिकाशकलं इन्द्रियविषयकमर्थो भवति । तत्पदार्थमुद्दिश्य हट्टपट्टणस्थितरजतसदृशचाकचश्यादिसामग्रीजातपुरोवर्तिज्ञान - विषयकशुक्तो अन्यस्य इदं रजतं इति शानं तदज्ञानविषयक असद्विषयकं वा साध्यं, तत्सम्बन्धाववेकज्ञानामत्यच्यते । तद्विरहितज्ञानस्य यः पदार्थों विषयो भवति स एवार्थो ज्ञानाधि षयक इत्यर्थः । । ननु इतरपदार्थज्ञानराहतज्ञानविषयकं प्रमात्वमिति वक्तव्यम् । तथा सति अस्मिन् ज्ञानविषयकशानकाले सर्वपदार्थसामग्रयभावात् कथं पुरोवर्तिज्ञानं प्रमात्वेन ज्ञातुं शक्यत इत्यस्वरसादाह - अभावेति । 'अभावप्रत्ययावलम्बना वृत्तिः निद्रा ॥ ५४॥ नितरां पुरोवर्तिविषयकज्ञानगोत्ररज्ञानग्राहकसामग्रीकाले योग. I. 10. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy