SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रश्नः ननु धूळोपटलं दृष्ट्वा धूमभ्रमो यत्र भवति तत्र दोष एव हि कारणम्, न तत्माजनक सामग्री । तथा सति दोषोंत्पन्नकाले दोषसामग्रीसत्वात् सर्वत्रापि भ्रम एव स्यादित्यतआह-- दोषीत । AYURVEDA दोषजन्यज्ञानविषयको विपर्ययः ॥ ५१ ॥ विपर्ययज्ञानमात्रस्य दोषजन्यत्वात् पीतश्शङ्ख इति भ्रमस्थले श्वैत्यानुमानं भ्रमनिवर्तकं भवतीत्यर्थः । ननु शुक्तन्द्रियविषयक संसर्गानन्तरं शुक्तिविषयकज्ञाने जाते सति अहं शुक्तिविषयक ज्ञानवानिति प्रतीतिर्भवतेि । तदनन्तरं तत्रैव अन्यस्य भ्रमो जायते । अन्यपुंसः अतस्मिन् तदिति ज्ञानमुत्पनमिति अन्येन वाक्ये प्रयुक्ते सति शुक्तिज्ञानानुभवाद्देवदत्तस्य च शब्दज्ञानानन्तरं ममोत्पन्नं शुक्तिज्ञानं प्रमाणं वा न वेति पूर्वानुभूतविषयिकायां देवदत्तस्य च शुक्तिज्ञानविषयकप्रतीती विकल्पो जायते । तद्भूमज्ञानं रसविरसजन्यरोग हेतुजं न भवतीत्यस्वरसादाह शब्देति । 'शब्दप्रयोगजनितज्ञानप्रतीतिविषयो विकल्पः ॥ मदिन्द्रियार्थगोचरयोग्यपुरोवर्तिद्रव्यं शुक्तित्वज्ञानविषयक - ज्ञानं भवितुमर्हति समर्थप्रवर्त्तकत्वात् । अस्मिन्विषये तदुत्पन्नं ज्ञानं रजतविषयकं संशयज्ञानग्राहक सामग्रीव्यतिरिक्त सामग्रीजन्यत्वात् एतद्रजतविषयकज्ञानं अप्रमाणं असमर्थप्रवृत्तिजनकत्वात् इत्यनुमानावेधया संशयनिवृत्तेः कर्तुं शक्यत्वात् । अत्र संशयभ्रमजनकरसविरसद्रव्यादनस्य अद्दष्टत्वात् परप्रयुक्तवा - क्यजन्यज्ञानं प्रमाविषयकं भवतीत्यर्थः । 1योग. 1. 9. 121 For Private And Personal Use Only 16
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy