________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्नः
123
तादतरपदार्थज्ञाने सति इतराभाववति प्रमाणत्वं ज्ञातुं शक्यत एवेत्यर्थः ।
सा प्रतीतिः तिक्तकटुरसवव्यादनाद्भवति ॥
ननु सर्वपदार्थेन्द्रियसन्निकर्षसामग्रयां सत्यां तत्तत्सामग्रया तत्तदर्थो ग्रहीतुं शक्यते । तस्मात् सर्वपदार्थविषयकज्ञानग्राहकसामग्री यावज्ज्ञानसामग्री शुक्तिविषयकज्ञानग्राहकसामग्री तावत्मामग्रयाः तदानीमसंभावितत्वात् काचित्सामग्री वक्तव्या । सा सामग्री तिक्तकटुरसद्रव्यादनसामग्री यस्यास्ति सा सामग्री सर्वपदार्थग्राहिका भवतीत्यर्थः ।
ननु सर्वपदार्थतरत्वं शुक्ती कथं सम्भवति सर्वपदार्थानां सान्निध्याभावात् । उक्तरीत्य पुरोवर्तिनं ग्रहीतुं न शक्यत एवेत्यस्वरसादाह-प्रमाणेति । 'प्रमाणेनानुभूतार्थासंप्रमोषः स्मृतिः ॥५६॥
प्रमात्वेन पूर्वानुभूतार्थ पुरोवर्तिविषयकज्ञानग्राहककाले पदार्थत्वावच्छेदेन पूर्वानुभूतपदार्थ उपस्थिता भवन्तीत्यत्र न शङ्काविषया भवन्तीत्यर्थः । तावदर्थान् मनसि स्मृत्वा प्रमोषराहित्यं कर्तुं शक्यत एवेत्यर्थः । सात्विकगुणोदयसामग्री मधुररसवव्यादनसामग्री । तेन हेतुना मनसा पदार्थत्वावच्छेदेन सर्वपदार्थान्सङ्गृह्य स्मर्तुं शक्यत एवेत्याह-मधुरेति ।
मधुररसपरिणामाजातसात्विकोदयात् सोऽयमिति व्यपदेशः ॥ ५७॥
1 योग. I. 11
For Private And Personal Use Only