________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
110
आयुर्वेदसूत्रे
ननु यद्विरुद्धरसवदव्यादनं यावद्रोगहेतुकं तद्विरुद्धद्रव्यादनं तत्तद्रोगनिवर्तकमिति वक्तव्यम् । तथा सत्यमधुररसजन्य. रोगाणां निवर्तको मधुररस एव भवति । यथा कदळीफलविरसजन्यरोगस्य अजीर्णस्य कदलीफलरसद्रव्यादनं निवर्तकमिाते वक्तुमशक्यमित्यर्थः । किंतु आम्लरसाद्या निवर्तका भवेयुरिति तात्पयम् । यावदव्यादनज्ञानं यत्काले यथोपलब्धं तत्काल एव पूर्वदिनान्नापेक्षया ..धुतरानादनं पथ्यं भवतीति तत्काल योग्यद्रव्येण प्रथमदिनजन्यरोगस्य तत्कालोचितरोगाभावकार्यस्य प्रागभावपरिपालनं पुरुषार्थ इत्यर्थः ।
ननु रसविरसान्नादनाजातप्रमाप्रतीतस्थले यथा घटज्ञानगोचरज्ञानानन्तरं तत्रैवातिनिरीक्षणेन चक्षुर्दोषवशात् तत्प्रतीतिविषयतद्विषयतात्कालिकसंशयः कथ स्यादित्यस्वरसादाह --- अत्यन्तेति।
'अत्यन्तानिमिषदृष्टया चक्षुरिन्द्रियदोषस्तम्भवति ॥ २३ ॥
तहोषवशात् तत्प्रमा अतत्प्रतीतिविषयस्थले दोषग्रस्तेन्द्रिय. गोचरज्ञानजन्यप्रमायाः संशयज्ञानस्य अप्रतिवन्धकत्वात् तत्र सशयो भवतीत्यर्थः।
न पीडयेदिन्द्रियाणि न च तान्यतिलालयेत् । एतद्वचनानुसारेण इन्द्रियातिलालनमेव अनिमिषदृष्टिरित न संशयः । विरुद्धरसादनजन्यं न भवतीति विशेषदर्शनसामग्रीसंशयप्रतिबन्धकात् तन्निवर्तकरसादनसामग्री ? तस्य जनकत्वाभा
... 1 A. B. कोशद्वयेऽप्येतत्सूत्रं न दृश्यते.
For Private And Personal Use Only