________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्न:
109
मनु सर्वे व्याधयः दोषत्रयजन्याः । ते सर्वेऽपि तत्तद्रसादनजन्याः । अतः सूत्रे पित्तविरुद्धद्रव्यादनाञ्चित्तविभ्रमो भवतीति यत्तश्चिन्त्यम् । श्वै यगुणविशिष्टे शङ्के पतिोऽयमिति ज्ञानं भासते। तदयुक्तमित्यस्वरसादाह-सेति ।
सा प्रतीतिः पित्तविरुवाहारजन्या' ॥ २१॥
भ्रमविषयकज्ञानं च पित्तजन्यम् । पीतश्शङ्ख इति ज्ञानं च शुद्धपित्तविरुद्धाहारजन्यम् । पवनपित्तरोगजनकविरुद्धरसजन्यत्वे सति तद्विरुद्धाहारजन्यत्वात् यन्नैवं तन्नैवं यथा घटादिः।
ननु शुक्तौ इदं रजतमिति भ्रमविषयकज्ञानं जायते । पीतइशङ्ख इत्यत्रापि तथा प्रतीयते। तदुभयं यावद्व्यरसवव्यादनजन्यनिवर्त्यभावकार्यहेतुभूतद्रव्यं तद्विरुद्धरसवद्दव्यादनकायहेतुपूर्वकं रसविरसजन्यरोगाभावकारकद्रव्यत्वात्, यन्नैवं तन्नैवं यथा घटः ।
ननु यत्किंचिहव्यं विषयीकृत्य अत्यन्तनिरीक्षणात् पूर्व प्रमाणत्वेनानुभूतमपि तत्रैव संशयो जायते । तत्र रसवदव्यादनं हेतुर्न भवति इत्यत आह-अतीति । "अतिनिरीक्षणे दोषप्रमायां संशयो भवति॥२२
इन्द्रियार्थसन्निकर्षे सति तदर्थविषयकज्ञान जायते । तद्विषये तत्रैव तत्काले अतिनिरीक्षणदोषवशाद्भमो भवति । तत्रापि पूर्वजातरजतप्रमाविषयकशानं अतिनिरीक्षणदोषजन्यं न संशयशानस्थ निवर्तकं भवतीत्यर्थः ।
1 चक्षुर्दोषजाता च । तत्कालोचितकार्यकारणम् । इत्यधिकपाठ:-A. B. ' अतिनिरीक्षणदोषात्प्रभूतायां संशयो भवति- A. B,
For Private And Personal Use Only