SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 आयुर्वेद सूत्रे तकम् । अनेक लवणोष्णरसबद्दव्यं कफनिवर्तकम् । एतादृशयोगकल्पनमेव योग्ययोगो भवेदित्यस्वरसादाह चित्तेति । चित्तविभ्रमो विपर्ययः ॥ १८ ॥ यावद्रोगापत्तरसवदव्यमेळनव्यातरेकेण योगकरणं विरुद्धयोगो भवति । तत्तु चित्तविभ्रमो भवति । चित्तं मनः । तयोरैक्येन रजतत्वाभाववति शुक्तौ रजतं यत्र भासते तत्र चित्तविभ्रमो भवतीत्यर्थः । ननु रजतत्वप्रकारकज्ञानग्राहकसामग्रीविशिष्टपुरोवर्तिनं यदा विषयीकरोति रजतत्वप्रकारकज्ञानग्राहकसामग्रया तद्विशिष्टमेव भासते हपट्टणादौ तथा दृष्टत्वात् । यावज्ञानगोचरसामग्रथा अनावात् चित्तविभ्रमः कथं ल्यादित्यस्वरसादाहअतदिति । अतस्मिस्तदिति प्रत्ययः ॥ १९ ।। यत्र रजतत्वाभाववति शुक्तौ रजतत्वं भासते तत्तत् । अत: स्मिन् अन्यस्मिन् तदिति भ्रमो जायते । तत्र विकल्पः, तद्विषयकज्ञानग्राहकसामग्री तद्विशिष्टार्थमेव गोचरीकरोति, पुरोवर्तिग्राहकसामग्रथा सत्वादित्यत आह-पित्तेति । पित्ताधिकैकजातात्पीतशाङः ॥ २० ॥ पित्तप्रकोपरलादनेन पित्तरोगोद्भवो भवति । तत्र काचकामालादिरोगवशात् श्वैत्य गुणविशिष्टपुरोवर्तिनि पीतगुणविशि. टोऽयमिाते ज्ञानं जायते, तत्तद्दोषवशात् । तच्च तद्दोषविरुद्धादनाद्भवति । तदा पीतश्शङ्ख इति ज्ञानं जायते । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy