________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
106
आयुर्वेदसूत्रे
ननु परमात्मन ईश्वरस्य निर्लेपनत्वात् निर्गुणत्वात् निस्थानन्दानुभववत्त्वात् तस्य सुख खादिवैचित्र्यं कथं संभवति शरीराधिष्ठानत्वस्य जीवात्मपरमात्मनोः समानत्वादित्यत आहसुखति । 'सुखदुःखमोहात्मिक द्यास्त्रयःप्रादुर्भवन्ति।।१४
अहं सुखी अहं दुःखी कर्माधीनकर्मोंपाधिकरूपः प्रकृत्या. कन्वात् । यदा जीवात्मनि आवृत्ते सति- आत्मनः मायाश बलितत्वात् तावन्तो धर्मा उपलभ्यन्त इत्यर्थः । अत एव कर्माधिकारित्वं जीवात्मन उ लभ्यते । आत्मन एव मोक्षाधिकारिस्वादुरसान्नादनं तस्यैव लभ्यते । तजन्यसात्विकगुणो मोक्षो. पकारको भवति । यदा आम्लरसादनं उपलभाते तदा राजसगुणाविर्भावो भवति । तेन केवलं सुखं भु । कटुरसद्रव्यादनं यदा भवति तदा दुःखानुषक्तसुखमनुभूयत इत्यत आह-तदिति ।
तद्रजस्तहेतुगुणभूतजातम् ॥ १५ ॥
तद्रज इति तच्छब्देन सत्वरजस्तमोगुणा विवक्षिताः । तेषां मध्ये प्रथमगुणरजोगुणकार्य हि आम्लरसपद्रव्यम् । रजोगुणभू. तस्य आम्लरसबद्रव्यं कारणं भवतीत्यर्थः । तत्त सत्वगुणका. र्यस्य स्वादुरसलवणरसन्यत्वं तमस्सत्वगुणयोः हेतुभूतादित्यर्थः । सूत्रे हेतव इति बहुवचनयोगस्य विद्यमानत्वात् तमस्सत्वयोरपि ग्रहणम् ।
ननु उक्तरीत्या स्वाद्वम्ललवणरसानां योजकं सत्वरजस्तमोगुणजनकमात्र प्रतिपादितम् । वातपित्तकफजन्यरोगाणां निवर्तकरसद्रव्यस्य अन्यथासिद्धत्वात् तन्निवर्तकद्रव्याद्धीनेन जन्यरोगाः कथं निवर्तन्त इत्यत आह-यथेति ।
' सुखदुःखमोहात्मिका निवृत्तयः प्रादुर्भवन्ति. C,
For Private And Personal Use Only