SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 आयुर्वेद सूत्रे मधुररसानादनादनुसात्विकगुणहेतुकम् ॥ ७॥ मधुररसविशिष्टमन्नं यो भुङ्क्ते स सात्विकगुणवान्भवति । स जीव औपाधिकगुणं भुङ्क्ते । त्रिगुणा मधुराम्लकटुरसादनहेतुका इत्याह-अम्लीति । अम्लीभूतानादनं राजसगुणकारकम् ॥८॥ कटुकास्तमोगुणहेतुकाः ॥ ९ ॥ यस्य मधुररसे प्रीतिरास्ते स मुमुक्षुर्भवति । स इतररसानादनं विहाय मधुररसवद्रव्यं भुङ्कत इत्याह-मुमुक्षोरिति । मुमुक्षोर्माधुर्यम् ॥ १० ॥ मधुररसवहव्यं मोक्षहेतुः राजसतामसजनकरसाभावत्वे सति सात्विकगुणहेतुकरसवदव्यत्वात् । यो रसः सात्विकगुणप्रदो न भवति स मोक्षदोऽपि न भवति, कटुरसवत् । सर्वदा मुमु. क्षुभिः माधुर्यरसः पानयोग्यो भवति सात्विकगुणहेतुकमोक्षफलप्रदो भूत्वा सात्विकगुणकारकत्वात् । सात्विकगुणस्य मोक्षहेतुकत्वाच । ननु राजसगुणेन सुखानुभवे सति सुखहेतुभूतार्थतत्वज्ञाने सति सुखविषयकतारतम्यानुभवो भवति । नित्यानन्दानुभवं मोक्षहेतुकसुखं मधुररसजन्यम् । आम्लरसजन्यं राजसगुणविषयकसुखमनुभूयते । तस्माद्धयोपादेयविवेकशानं राजसगुणजन्यसुखानुभवव्यतिरेकेण मोक्षहेतुकहानजन्यसुखं ज्ञातुमशक्यमित्यस्वरसादाह-आम्लेति । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy