________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्नः
103
तद्गुणविशिष्ट आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थन, इन्द्रियाणां प्राप्यप्रकाशत्वनियम इति न्यायस्य दृष्टत्वात् । राजसगुणसंसृष्टदोषवशात् आत्मानुभवं पिधाय बाह्यविषयकसुखमनुभूयत इत्यर्थः। यदा सत्वो जीवः तामसगुणविशिष्टो भवति तदा तामसगुणविशिष्टस्सन् दुःखानुषङ्गं सुखमनुभवतीत्याहतम इति।
*तमउद्रेकात्कृत्याकृत्याज्ञानात्क्रोधादिभिर्नियमितो मूढः ॥५॥ ___तामसगुणाधिक्यात् कार्यविवेकज्ञानराहित्येन मूढमनाः क्रोधद्वेषादिभिः तद्विषयकज्ञानमनुभवति । ईषणत्रयविशिष्टतद्विष. यकसुखमनुभूयत इत्यर्थः। यदा सत्वस्य सात्विकगुणाविर्भावो भवति, तदा धर्मप्रतिपादकवेदान्तशास्त्रेष्वासक्तः स्वधर्मशास्त्रप्रतिपाद्यकर्माचरणेन सुकर्मजन्यसुखमनुभूयत इत्याह--सात्विकेति ।
सात्विकोदयात्सुखम् ॥६॥
। दुःखाभावसाधकशब्दादिप्रवर्तक सात्विकम् । जीवः सात्विकगुणाविर्भावे सति तद्धर्मप्रतिपादककार्यकरणेन स्वर्गविषयकसुखं भुङ्क्त इत्यर्थः।
ननु जीवात्मनः कदाचिद्राजसगुणानुभवः, कदाचित्तामसगुणानुभवः, कदाचित्सात्विकगुणानुभवो दृश्यत इति प्रतिपादितम् । नियमेन त्रिगुणानुभवस्य को हेतुरित्याकाङ्क्षायामाह - मधुरेति ।
* तम उद्रेकात्सत्याज्ञानात् क्रोधादिभिर्नियामितं मूत्रम् ॥ दिया:खाभावसाधकशब्दादिप्रवर्तकं सालिकम् ।
For Private And Personal Use Only