________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
102
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
नगोचरज्ञानजन्यकार्यमनित्यं भवति । आत्मनो नित्यद्रव्यत्वात नित्यद्रव्यविषयक ज्ञानगोचरज्ञानमेव आनन्दो भवति । अन्तरि न्द्रियस्य मनसः आत्मगोचरस्वभावत्वेन सर्वकाले आनन्दानुभव लभ्यत इति आत्ममनस्संयोगस्यैव योगत्वात् योगः शाश्वतं फलं प्रयच्छतीत्य र्थः ।
ननु परमात्मनो नित्यद्रव्यात्वाद्विभुत्वाच्च सर्वदा मनस आत्मना समवेत्य स्थितत्वात् सर्वदा आनन्दानुभव एव भवेत् इन्द्रियस्यार्थेन समवेत्य प्राप्यप्रकाशत्वनियमात् । तज्ज्ञानगोच. रज्ञानं आत्मनो विषयीकृतं भवतीत्यत आह- प्रकृतीति ।
प्रकृतिपुरुषान्तर्मुखज्ञानगोचरप्रत्यय प्रकृतिपरि
णामो योगः ॥ ३ ॥
1
प्रकृतिविशिष्टपुरुषं विषयीकृत्य अन्तरिन्द्रियेण मनसा गुणविशिष्टपरमात्माने विषयीकृते सति बाह्येन्द्रियार्थविषयज्ञानविरामेण ताद्दशगुणविशिष्टपरमात्मानुभवस्य परमानन्दहेतुकत्वात् तद्विषयकज्ञानयोगः परिणामयोग इत्यर्थः । प्रकृतिपुरुषविशिष्टद्रव्यं यदा विषयो भवति तदा आनन्दानुभव इत्यर्थः । तथा सति विष - यानन्दमुद्दिश्य प्रकृतिविशिष्टात्मविषयकशानं परमानन्दहेतुकमिति सर्वदा अयमानन्दानुभवं विषयीकरोतु किं बाह्येन्द्रियविषयगोचरज्ञानेन, अल्पानन्दानुभवहेतुकत्वादित्यत आह-रज इति ।
रजउद्रेकादस्थिरं बहिर्मुखात्सुखदुःखहेतु ||४||
परमात्मा कंचित्कालं राजसगुणविशिष्टो भवति । कंचित्कालं सात्विकगुणविशिष्टो भवति । कंचित्कालं तामसगुणविशिष्टो भवति । यदा जीवात्मनि राजसादिगुणाः आत्मभावा भवन्ति
For Private And Personal Use Only