________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदे तृतीयप्रश्नः.
ननु रसज्ञानं लब्ध्वाऽऽनन्दी भवतीति सूत्रव्याख्यानं कृतम् । तश्चिन्त्य जीवात्मनां आनन्दानुभववत्त्वं, बाह्येन्द्रियाणां बाह्यार्थविषयकगोचरज्ञानं आनन्दहेतकं न भवति, तद्विषयकज्ञानानुभवस्य इन्द्रियार्थसंयोगकालमा आनन्दहेतुकं, तद्विनाशे सति तन्नाशात् । बाह्येन्द्रियविषयानुभवस्य तत्संसर्गनाशे सति तन्नाशात् इत्यस्वरसादाह-अथति।
अथ योगानुशासनम् ॥१॥
अथशब्देनानन्तर्य सूच्यते। षड्सबद्रव्यादनस्य शरीरदाwकार्यहेतुत्वं सम्प्रतिपादितम् । तस्मादृढतरधातव आत्ममनसंयोगसम्पादनार्थ हेतुभूतास्संतः तद्विषयकशानानुभवानन्द अन्तरिन्द्रियात्मसंयोगजन्यं भवतीति मनास निधायाह जीवात्मनः परमात्मानुसन्धानमानन्दहेतुकं भवतीति ।
ननु योगानुशासनमपि अजीर्णाभावसम्पादनार्थ कारणं भ. वतु। तथा सति आमनिवृत्तेरेव फलत्वात् अनिष्टपरिहारमात्र फलं लभ्यत इत्यत आह-तस्मादिति ।
तस्माद्योगः फलदः ॥ २॥
विषयानुभवो विषयानन्दहेतुकः । आत्मानुभवोऽप्यात्मानन्दहेतुकः, आनन्दहेतुककार्यस्य उभयोरपि समानत्वात् । योगानुशासनेन किमाधिकफलं लभ्यत इत्याशङ्कय अनित्यविषयकज्ञा
For Private And Personal Use Only