________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयप्रश्न:
Acharya Shri Kailassagarsuri Gyanmandir
99
अवयवाश्च कालश्च देशश्चेति एतानुद्दिश्य तत्तद्योग्यद्रव्यं एधितं हितं निवर्तकं भवतीत्यर्थः । शोषकपोषकद्रव्यस्य इयं व्यवस्था कृता । एवं प्रतिमासं चिकित्साकरणं कर्तुमयोग्यम् । वर्धिष्णोः शरीरस्य वृद्धिकरणद्रव्यादनमेव योग्यमित्यस्वरसादाह-यावदिति ।
यावद्वार्धिकास्तत्र भेषजाः ॥ ९४ ॥
वार्धिकद्रव्यमात्रं प्रशस्तं भवति । तथा चेदतिप्रसङ्गस्स्यात् । यावच्छब्दार्थमहिम्ना यावद्योग्यरसवव्यादनं विवक्षितामित्यर्थात् । न केवलं यावद्वार्धिकद्रव्यं वृद्धिकारकं भवति, कालवशात् शोषक कार्यगुणस्वभावत्वात् इत्यत आह-- सर्पिषेति ।
सर्पिषा पोष्यपोषकाः ॥ ९५ ॥
यावद्वार्धिकद्रव्यं सर्पिस्संयोगानलपाकजन्यं संस्कारविशिष्टपाकरसवद्दव्यं कार्यकारकं भवति, स्नेहवव्यसंयोगजन्यवार्धिकगुणप्रापकद्रव्यत्वादित्यर्थः ॥
አ
लङ्घनादिना दोषे क्षीणे सति धातुशोषे सति तत्र पोषकद्रव्यं कार्यकारकं "असो पोषणकरो भवतीति " । तत्र शोषकद्रव्येण निवर्तककरणं अयोग्यमित्यत आह--नेति ।
न पोषककाले शोषकाः ॥ ९६ ॥
पोषक कार्यकरणयोग्यकाले शोषकद्रव्यकालोचितकरणं अयो ग्यमित्यर्थः । ननु पोषकाश्च शोषकाश्च लोके व्यवहारयोग्याः षड्रसा एव । एकैकरसवद्दव्यस्य एकैकधातुपोषकत्व प्रयोजकत्वमागतम् । तावत्पोषकत्वस्य स्वत एष सिद्धत्वात् । रसवहूव्यातिरिक्तद्रव्याभावादित्यस्वरसादाह - पड़सा इति ।
For Private And Personal Use Only