________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
98
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्र
शुsari विरुद्धफलं ददाति । घृतनुतान्नमेव कार्य कारकम् । तस्मादन्तर्वत्याः घृतप्लुतान्नं दापयेदित्यर्थः । पुनरप्युक्तमर्थमुपसंहरति तस्मादिति ।
तस्मात्स्वावयवविभवं धातुवर्धनं कुर्वत्यः प्रजाः प्रजायन्ते ॥ ९१ ॥
घृतप्तानादनं अवयवाभिवर्धकमित्युक्तम् । यत्किचिद्विकारे सति तन्निवर्तकेन निवर्तनीयम् । तद्धतप्लुतान्नमेव निवर्तकमिति वक्तुं न शक्यते, गुरुद्रव्यत्वात् । तस्मादसङ्गतमित्यस्वरसादाहतदिति ।
तच्छोषकपोषकद्रव्यं तत्र भेषजम् ॥ ९२ ॥
विकारे सति शोषकपोषकद्रव्ये कार्यकारके भवतः । जातशिशोश्च प्रथमतः प्रथमं शोषकद्रव्यजातरुजः शोषकद्रव्यं भेषजम्, पोषकद्रव्यजातरुजः पोषकद्रव्यं निवर्तकम् । एवं दशममासपर्यन्तं अन्योन्यं निवर्तकं भवति । गर्भस्थशिशोर्यावद्रव्य. मभिवर्धकं भवति तावद्दव्यमात्रं भेषजमित्यर्थः ॥
ननु गर्भस्थशिशुवज्जातशिशुरपि भेषजद्रव्यैः पोष्यते । प्रथमोत्पन्नशिशोः द्रव्यादनज्ञानं नैधते । मातुराहाररसाहारजन्यप्रतिकारकरसवद्द्रव्यादनभेषजकर्मणः पोषकद्रव्यत्वात् । तद्वत्रापि पोषकद्रव्याण्येव हेतुरिति वक्तुमशक्यत्वादित्यखरसादाहएवमिति ।
#medical
एवमुत्तरोत्तराभिवृद्धिर्मासे र्मासे ॥ ९३ ॥
यायोग्यरसादनं पक्षीकृत्य किंचित्किच्चिदेधितव्यम् ।
For Private And Personal Use Only