________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्नः
97
अन्नादनं शरीरदायकारकमिति अन्वयव्यतिरेकप्रमाणसिद्धत्वात् । यत्सत्वे यत्सत्वं यदभावे यद्भावः' इति न्यायेन अन्नादने सति शरीरदायै तदभावे तद्भाव इति न्यायनयसिद्धत्वात् । अन्यथासिद्धेश्च दिवा अभुञ्जानस्य देवदत्तस्य सत्वं रात्रिभोजनमन्तरेण न संभवतीति, तस्यापि रात्रिभोजनमन्तरेण सत्वं नोपपद्यते, स्वावयवव्यतिरिक्तपिण्डावयवाभिवर्धकं न भवति, अन्यसाधनस्य अन्यावयवाहेतुकत्वात् इत्यस्वरसादाह-- अद्यत इति ।
अद्यतेऽत्ति च भूतानि ॥८॥
त्रिविधभूतानि । सात्विफराजसतामसद्रव्यादनात्तत्तद्गुणभूयिटशरीगभिवृद्धिकारणत्वात्रिगुणात्मकं शरीरम् । भूतानि तत्तदभिवर्धकद्रव्यादुत्पद्यन्त इत्यर्थः ।
उक्तार्थमुपसंहरति-तस्मादिति । तस्मादन्नं तदुच्यत इति ।। ८९ ॥
अन्नं धातुप्रदं पुष्टिदं अवयवाभिवर्धनकरं एतादृशगुणं प्रयच्छति । इतिशब्देन हेतुरुच्यते । रसवदन्नमवयवाभिवृद्धिं करोति। तस्मादन्नरसमयं उपसंहृतार्थ शुद्धरसवदनं प्राणमय पिण्डावयवाभिवर्धकं तदुच्यत इत्यर्थः ॥ ___अन्नं तु स्वनिष्ठ सगुणं प्रयच्छति, अवयवाभिवृद्धि करणे सामर्थ्याभावात् । शुष्कान्नादनं विरुद्ध फलं प्रयच्छति । कथमन्नं जीवातुरिति वक्तं शक्यामित्यत आह-घृतेति । ।
घृतलतानमन्तर्वत्याः प्रदापयेत् ॥ ९ ॥ AYURVEDA
13
For Private And Personal Use Only