________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्नः
91
यावत्पदार्था यावत्कालेषु यावद्रोगविषयेषु निवर्तकत्वेन कार्यकारणत्वेन यावजातिषु सन्ति तेषु तत्तजातिविहितपदार्था इत्यर्थः ।
तदेव प्रतिपादयति-निवर्तकमिति । निवर्तकं भेषजम् ॥ ७३॥
ननु निवर्त्य गुणविशेष्यत्वस्य विकारस्य निवर्तकत्वं ऊर्ध्वाधोविरेककरणमित्युक्तम् । तदनन्तरं यद्दोषहेतुकं भवति तज्जन्यदोषप्रकोपे सति तद्विरेचनकार्यमयोग्यं स्यादित्यस्वरसादाहदोषेति।
दोषत्रयहेतुकः।। ७४ ॥ . दोषत्रयकार्यस्य विरेचनकार्यस्य युक्तत्वात् तत्तनिवर्तकत्वेन प्रतिपादयितुमशक्यमित्यर्थः ।
यत्प्रतिपादनेन आमवृद्धर्दोषजन्यत्वं प्रतिपादितं भवेत् इत्यस्वरसादाह --सर्वेति ।
सर्वजन्तूनामनामपालनं निवर्तकम् ।। ७५॥
सर्वभूतानां अनामपालनं पुरुषार्थः। दोषे प्रथममामविरेचनं करणीयम् । तथाहि - आमप्रकोपे सात तान्नवृत्तिकरण जन्तू. नामनामपालनं पुरुषार्थकं भवति ।
ननु अनामपालनं पार्थिवद्रव्यहेतुकं न भवति । तत् अल्पाहारादनं धातुपोषकं दोषोपकारकं च भवदित्यस्वरसादाहवहीति।
वह्निप्रवर्धकद्रव्यं यावच्छरीरोपबृहणजठरानलप्रवर्धकद्रव्यम् ॥ ७६ ॥
For Private And Personal Use Only