________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
90
आयुर्वेदसूत्रे
विकाराणां निवर्तकभावः । अन्वयव्यतिरेकसहचरगम्यत्वं यत्रोपलभ्यते तत्राय नियमः । सदर्थ तत्तद्रव्यमित्युक्तम् । यावत्कालेषु तत्तत्कालोचितरसवव्याणां निवर्तकत्वं नियमेन यत्रोपलभ्यते तत्राय नियमः । तदर्थमुक्तं तत्तत्कालेति । यावन्तो रोगाः यावन्निवर्तककार्यविषयाः इति नियमेन कार्यकारणभावा यत्र दृश्यन्ते, 'यत्सत्वे यत्सत्वं यदभावे यदभावः' इति नियमेन व्याप्तिग्रहो यत्र तत्रायं नियमः । तदर्थमुक्तं तद्विषय इति । तत्तजातिविहित. विकारेषु निवर्तका इति सूत्रार्थः। नानाजातिस्थरोगानिवा इत्युक्तम् । सर्वनिवर्तकज्ञाने सति तथा वक्तुं शक्यते । सर्वपदार्थस्वरूपस्य ज्ञातुमशक्यत्वादित्यत आह-निवर्त्य इति । निवयों विकारः । शोषकपोषकवार्धकविषयकद्रव्यत्वावच्छेदकज्ञानगांचरज्ञानोपाय इति विज्ञाय सर्वपदार्थविषयकत्वात् पुष्पफलसारादिद्रव्यं तेषु अप्रयोजनम् । कषायचूर्णतैलघृतलेहरसायनयोगेषु तत्तद्विधिविहितद्रव्येषु तथोक्तत्वादिद पथ्यापथ्यविधिविचारक्षानविषयकद्रव्यादनयोग्यभोज्यक्रम अग्रे प्रतिपादयिष्याम इत्यर्थः ।
ननु पत्रपुष्पफलादीनां फलवत्प्रवृत्तिविषयकं कषायतैलचूर्णधृतले रसायनादिषु भिन्नप्रकारकं पानभोज्यद्रव्येषु तद्भिनप्रकारकम् । सर्वद्रव्याणां द्विविधोपकारकत्वं तश्चिन्त्यम् । सर्वजातिषु सर्वकालेषु सर्वद्रव्येषु सर्वव्याधिषु अनुस्यूतप्रकारकतावच्छेदकं एकैकस्यैवेति वक्तव्यम् । अन्वयव्यतिरेकप्रमाणाभ्यां यस्य कस्य कार्यकारणभावो गृहीतः तत्रैथोचितमित्यस्वरसादाहतत्तादति।
तत्तव्यं तनत्काले तत्तद्विषये तत्तनिवर्येषु निवर्तकम् ॥ ७२ ॥
For Private And Personal Use Only