________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्नः
89
न च तत्प्रागभावपरिपालनं निवर्तकं भवेदिति वक्तुं शक्यते, सर्वत्रापि तथात्वे अतिप्रसङ्गादित्यस्वरसादाह --निवर्त्य इति । निवौं विकारः ॥७०॥
निवर्तयितुं योग्यो निवर्त्यः, स विकारः । निवर्तकस्य विकारहरणं विचारणीयम् । सर्वव्याधिप्रागभावस्य सर्वदा विद्यमानत्वात् । तस्येदमिदमिति प्रत्येकावच्छेदेन तत्तनिवर्तकत्वस्य निर्णेतुमशक्यत्वात् । तस्मात्तदा विकारे जाते सात तन्निवर्तकत्वस्य निर्णेतुमशक्यत्वात् निवौं विकार इति सूत्रे प्रतिपादित इत्यर्थः॥
ननु विकारे सति स्वाद्वम्ललवणरसाः विकारप्रतिकारका इति पूर्वमेव प्रतिपादितम् । तच्चिन्त्यं, “निवो विकारः" इत्यत्र रसाद्या निवर्तका न भवन्तीत्यस्वरसादाह -आमेति ।
आमवृद्धिविकारस्सर्वरोगहेतुभूतः ॥ ७१॥ ___ अत एव यः पाचकपित्तेन तूत्पाद्यते सोऽनलः पक्वाशयगतार्थमेव पचति । ताद्वरुद्धरसजन्यामयस्य मलाशयस्थितत्वात् । पार्थिवद्रव्यावयवोपाधिकरसोपलम्भकसुगन्धगुणभूयिष्ठपाकोपाधिकयोग्यस्वादुरसा व्यं पोषकद्रव्यं, अन लावयवाधिकलवणोष्णरसबद्रव्यलघुतूलिकावयवजातक्षारगुणकतदितररसबद्दव्यातिरिक्त. द्रव्यं अद्रव्याधिकावयवस्नेहवद्रव्यं, स्वादुगुणभूयिष्ठपाके जठरानलप्रदं तिक्तज्ञानविषयकं यत् तत्पार्थिवद्रव्यम् । तत्पत्रभेदद्रव्येषु त्रिविधोपकारकत्वं, पुष्पफलभेदद्रव्येषु त्रिविधदोषोपकारकत्वं, फलभेदद्रव्येषु त्रिविधोपकारकत्वम् । तत्तजातिविधिविहितद्रव्याणि तत्तद्विकारप्रतिकारकाणीति तत्तल्लक्षणेषु शरीरेषु योग्यानीति विशोषतव्यम् । न तत्र स्थानांतरतत्तजातीयAYURVEDA.
12
For Private And Personal Use Only