________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-~24.५
आयुर्वेद सूत्र
....................................ranie. प्रकोपजातकार्यहेतुकद्रव्याभावात् अन्यद्रव्यादनं सकलपित्तप्र कोपशमनं सकलशरीरारोग्यकारकं सकलजनोपकारकहेतुभूतं तत्तजातिविहिताम्लरसबहव्यं गर्भिणी पाययेदित्यर्थः। तेनैव गों वर्धते तत्तदङ्गप्रकोपकारणं भवतीत्यर्थः । अन्तर्वनयाः आरो ग्यविषये यावत्साम्लरसवहव्याणां निवर्तकत्वं प्रतिपादितम् तदितररसवद्दव्याणां प्रयोज्याभावेन तेषामप्रयोज्यत्वं भवेदित्य स्वरसादाह-षष्ठेति। .
षष्ठाष्टनवमासेषूष्णरसाः कफशोषकाः प्रवर्तकाः ॥ ६९ ॥
षष्ठाष्टनवमासेषु स्वाद्वम्लरसोपलम्भकद्रव्याभावविशिष्टोष्णरसबद्दव्यं अन्तर्वत्नयामयविषये तत्तदन्यादनं विधेयम् । तत्तदन्योन्याभावप्रतियोग्यभावद्रव्य उष्णरलद्रव्यमिति । तबिरुद्धा रसाहारजातकफकोपकार्य द्रव्याभावद्रव्यादनं सकलककदोषजा. तहकप्रकोपशमनकार्य सकलशरीरारोग्यकारकं सकलजीवनोपकारकहेतुभूतं तत्तजातिविधिविहितोष्णरसवदव्यं गर्भिण्याः पाययेदित्यलम् ॥ ___ ननु वातपित्तकफदोषनिवर्तकत्वं षड्रसानामेव प्रतिपादितम् । उक्तरीत्या स्वाद्वम्ललवणरसवदव्याणां दोषत्रयस्थितविकारं निवर्तयितुमशक्यत्वात् “तत्राधा मारुत मन्ति" इति वचनानुसारेण उपादितविकारनिवर्तकत्वं स्वाद्वम्ललवणरसबद्दव्याणां प्रतिपादितं न तिक्तोषणरसवद्दव्याणामिति चेत् न; रसपाके तथ प्रयाणामेव प्रयोजकत्वप्रतिपादनात् तिक्तोषणकषायरसानां तत्रैवान्तर्भावात् , किंच अनिमित्ते निवर्तकद्रव्यस्याप्रयोजकत्वात् ।
For Private And Personal Use Only