________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयप्रश्नः
Acharya Shri Kailassagarsuri Gyanmandir
तदूर्ध्वे ऋतौ शोषकं तदनन्तरमपि शोषकरसाः गर्भाभिवर्धका यावत्कालोपयोग्याः ॥ ६६॥
84
- यथायथोपयोगयोग्यकरणसवाणि अनिन्दितानि आरो ग्यकार्यहेतुभूतानि आगामिरोगा भावकार्यकारणानि यावच्छक्तिदोषकारकाणि विधिवद्विविध्य ज्ञाप्यते प्रथमेति ।
प्रथमद्वित्रिमासेषु मधुररसाः पवनहरा निवर्तकाः ॥ ६७ ॥
-
अम्ललवणरसोपलम्भकद्रव्याभ्यां विशिष्टं स्वादुरसवद्दव्यं अन्तर्वत्नया: प्रथमद्वित्रिमासेषु प्रशस्तं भवति । एतदन्योन्यसंसगंजातरसवद्रव्यं विरुद्धरसजात पचनप्रकोप रोगाङ्कुरहेतुकद्रव्याद्नं पत्र नहरं सकलशरीरोपयोग्यं सकलजीवमात्रसाधारणम् । तत्तजातिविहितपदार्थास्सेव्या इत्यर्थः । तावत्कालमात्रं तावद्रसादनेन निवर्तकेन निवर्त्याः निवर्तयन्तीत्युक्तम् । तदितरकालेsपि विरुद्धरसादनकार्यस्य सम्भावितत्वात् तत्रापि गर्भाभिवर्धकद्रव्यादनस्यावश्यकत्वात् यावत्कालोपयोग्यं यथायथं विधेयकार्यहेतुभूतान्यनिन्दितानि आगामिरोगाभावकार्य कारकाणि तावव्याणि विविच्य प्रकाश्यन्ते चतुरिति ।
चतुःपञ्चषट्सु मासेषु अम्लरसा: पित्तहरा निवर्तकाः ॥ ६८ ॥
स्वादुलवणरसोपलम्भकद्रव्याभावविशिष्टाम्लरसवद्द्रव्यं ग
भिण्याः चतुःपञ्चषट्सु मासेषु पाययितव्यम् । एतदन्योन्याभाचप्रतियोग्य भावद्रव्यं अम्लरसवद्दव्यं विबद्धरसाहारजन्यपित्त
For Private And Personal Use Only