________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
86
माथुर्वेदसूत्रे
___ इति शारीरसूत्रवचनानुसारेण युग्मदिनेषु पुत्रोत्पादकसा. भग्रयां सत्यां पुत्रो भवति । तदन्यदिनेषु पुत्रिकाजनकसामग्रयां सत्यां पुत्रिका भवतीत्यर्थ उपलभ्यते । तस्याश्चरमधातुरेव रक्त भवति । तत्तच्छुक्लसानिपात्यं यत्काले भवति स कालः पुत्रं पुत्रिकां च प्रयच्छति ।
घृतमाक्षिकतैलाभं सदर्भायातवं पुनः । लाक्षारसशशास्राभं धोतं यच्च विरज्यते ।
शुद्धशुक्रार्तवं स्वच्छ सरक्तं मिथुनं मिथः। गर्भोत्पादश्च रक्तविशेषे वक्तव्यः । तद्विशेषस्तु शुक्लविकार एव, सप्त धात्वात्मकं शरीरमिति सर्वसिराणां सप्तधात्वावृतत्वात् । स्त्रीणां शुद्धधातुरेतादशरक्तरूपो भवतीत्यर्थः । पुरुषजननस्य हेतुः काल एव । किं स्त्रीजननस्यापि तदेवत्यत आह-द्वीते।
द्विचतुःषष्ठाष्टदशद्वादशेऽहनि जाताः पुत्राः तदितरेऽहनि जाताः पुत्रिकाः ।। ६४ ।।
ननु उत्पन्नपिण्डस्य पोषकत्वं वक्तव्यम् । तत्ोषकद्रव्यैर्भा. व्यम् । तत्रापि कालविशेषो वक्तव्यः । स कालः पोषको । वतु । ननु शुक्ल शोणितसन्निपाते जाते गर्भोऽपि भवति । तत्रैव मासे ऋतुमत्या च प्रदर्शितानि इष्टानि गीचहानि। तद्रक्षणार्थ प्रथमर्ती पोषकद्रव्यं पाययेदित्यत आह-प्रथमेति । प्रथमती पोषकं निवर्तकम् ।। ६५ ॥
यदा गर्भलक्षणमपि जातं सैव च ऋतुमतीति दृष्टा, चिकित्सा तत्र पोषकद्रव्यादनं तत्र विधिः । द्वितीयमासे पोषकद्रव्यादनं तत्र प्रतीकारो भवति । एवं च दशमासपर्यन्तं पोषकशोषकचिकित्सा विहिता। तया गर्भ संरक्ष्य सुखेन पुत्र सूते इत्याह-तदिति ।
'अष्टाङ्ग. शारीर. !. 18-19.
For Private And Personal Use Only