________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्नः
85
प्रजाकामास्तावत्प्रयत्नं मिथुनं तावद्धेतुकम् ॥
प्रजासम्पादनफलमवश्यं मे भूयादिति कामनया प्रवृत्तस्य पुंसः चतुर्दशदिनपर्यन्तं निरीक्षणस्य को हेतुरित्याकालायांतत्र हेतु घूमः- रजस्वलादिनादारभ्य सप्त धातवः रक्तरूपेण सवन्ति । तदा स्त्रीणां सप्तमधातुप्रस्नावणं यतो लभ्यते पुनिष्ठचरमधातुप्रसावणं एककाले योन्यां सन्निपातो यदि भवेत् तदानीमविलम्बन कार्योत्प. त्तिर्भविष्यतीत्यर्थः । पुसस्तावत्कालनिरीक्षणं युक्तमिति चतुर्दशदिनपर्यन्तं सप्त धातवो रक्तरूपा भवन्ति तावत्कालयोग्यमिति । तथाहि चतुर्थे दिने चरमधातुप्रस्रावणस्य योग्यता। अहश्च रात्रिश्च एककालं एकैकधातुप्रस्रावणकालः यत्रोपलभ्यते तावत्काली योग्यकाल इति । चतुर्थरात्री चरमधातुः स्त्रियः रक्तरूपेण स्रवति । तदानीमेव गर्भोत्पत्तिर्भवति यावत्कालं पुरुषधातुप्रमाबणनियमो यत्रोपलभ्यते तत्र तावस्कालमुद्दिश्य त्रयोदशदिनपर्यन्तं योग्य पक्षमा गर्भाशयं प्रापयितुं योनिपद्मस्य विकसिताकारेण स्थितत्वात्। तत्रोभयोस्सान्निपात्यपर्यन्तं विकसितं भवतीत्यर्थः । सान्निपात्ये मुकुळीभवतीत्यर्थः । पक्षमात्रमुन्मीलनीभवति । पक्षमात्र निमीलनीभवति । पक्षद्वयं मास इति “मासिमासि रजः स्त्रीणां ।। इति अत्र स्त्रीणां पक्षमात्रं रक्तस्रावे सति स दोषाय भवतीत्यर्थः । अत्र शारीरसूत्रवचने
ऋतुस्तु द्वादश निशाः पूर्वास्तिस्रश्च निन्दिताः। एकादशी च युग्मासु स्यात्पुत्रोऽन्यासु कन्यका ॥
उपाध्यायोऽथ पुत्रीयं कुर्वीत विधिवद्विधिम् । 1 अष्टाङ्ग. शाररि. [.7 'अष्टाङ्ग. शारीर. 1. 27-28
For Private And Personal Use Only