________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
84
आयुर्वेदसूत्रे
चिरात्प्रजोत्पादकसकलसामग्रीसामर्थे सति स जीवः ऋतुमती स्त्रियं प्रविश्य सुखदुःखाधिकं पापयशादनुभवति । तत्परिहारार्थ स्नानादि, तेन तत्परिहारो भविष्यतीत्याह-चतुर्थ इति।
चतुर्थेऽह्नि मायात् ॥ ६ ॥
चतुर्थे दिवसे तत्पापपरिहारार्थ स्नानं कुर्यादित्यर्थः । तदनन्तरं इष्टदेवताभजनं गुरुदेवताभजनं देवब्राह्मणपूजन प्रजानुग्रहार्थ देवताप्रार्थनं च कुर्यादित्यर्थः । अहं पुत्रकामिनी तत्संपदवाप्तयर्थ पतिं व्रजामीति परिशुद्धा सती पतिसंसर्ग कुर्यादित्याह--शुद्धेति ।
शद्धा पतिं व्रजेत् ॥ ६२ ।। सत्पुत्रावाप्तिभूयादित्यर्थः ॥
ननु यथा स्त्री रजस्वला ऋतुमती जाता सती तत आरभ्य ब्रह्मचर्यादिव्रताचरणेन गर्भोत्पत्ति, भूयादिति सङ्कल्प्य चतुर्थे स्नानं कृत्वा पतिव्रजनं विधिरित्युपलभ्यते । तद्दिनव्यतिरिक्तकाले मिथुने जाते सति गर्भोत्पत्तरदृष्टत्वात् । तत्र पूर्वदिनकर्तव्यताकार्यमङ्गत्वेनाप्रतिपादितमिति न कोप्यनवसरः ॥
ननु चतुर्थेऽहि मायादिति विधिः । तत्पूर्वदिनत्रयं व्रताचरणस्य विधेयत्वात् अष्टादिसकलसामग्रयां सत्यां अविलम्बन कार्योत्पत्तेदृष्टत्वात् चतुर्थदिनपर्यन्तं निरीक्षणस्य च प्रयोजकत्वात् तावत्कालाभावस्य उत्पत्तिरूपकार्याभावस्य हेतुमद्भावस्य दृष्टत्वात् चतुर्थेऽह्नि स्नानं कृत्वा पत्या साकं संसर्गकार्यस्य विधेयस्य बलत्वात् इत्यस्वरसादाह---प्रजति ॥
For Private And Personal Use Only