________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्नः
88
मग्रयां सत्यां अजो विधिचोदितस्सन् रजस्वलाशरीरं विशति । अजे आविर्भूते सति तावत्कालोपस्थितसामग्री सफला भवाते । तरसम्पर्कवशात् जीवस्य औपाधेिकानित्यत्वं औपाधिकरूपत्वं अशानित्वं आभासज्ञानवत्वं जीवात्मनि भासते । तथैव व्यव. हियते -वृद्धोऽयं श्यामोऽयं ब्राह्मणोऽयमिति । इदानीं अहं सुखी अहं दुःखीति एतादृशप्रत्ययानुपपत्त्या रजस्वलासंसर्गदोषवशात् जीवात्मनः कथं कर्म फलादेशं प्रयच्छति, औपाधिकसुखदुःखानुभवं प्राप्नोति न तु स्वतस्सिद्धमिति, अत्मत्वात् नित्यत्वाच्च औपाधिकसुखदुःखादिकं लभते न स्वतस्सिद्धमित्यर्थः। तस्य रजस्वलासम्पर्कदोष इति व्यपदेशः । तस्मात्सा चाण्डालोव न तां स्पृशेत् नाभिभाषेत । तत्र श्रुतिः--
“तस्मान्मलवद्वाससा न संवदेत न सहासीत नास्या अन्नमयात् ब्रह्महत्याये होषा वर्ण प्रतिमुच्यास्तेऽथो खल्वाहुः अभ्यञ्जनं घाव स्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्य काममन्यत्" .
इत्यारभ्य
“तस्यै खर्वस्तिस्रो रात्रीतं चरेत् अञ्जलिना वा पियेत् अखण वा पात्रेण प्रजायै गोपीथाय"
एतत्प्रतिपादितार्थः रजस्वला पास्संसर्गदोषमहिना अभूत् ॥ अत्र शारीरवचन
क्षरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम् । पणे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी । चतुर्थेऽह्नि ततस्त्रात्वा शुक्लमाल्याम्बरा शुचिः ।
इच्छन्ती भर्तृसहशं पुत्रं पश्येत्पुरः पतिम् ॥.. इति शास्त्रानुसारेण “ अजो नानारूप: पुरुरूप ईयते” इति सूत्रं सार्थकामित्यर्थः, बहुश्रुतिप्रतिपादकत्वात् ।।
। अष्टाङ्ग. शारीर. I. 25--28
For Private And Personal Use Only