SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्नः इन्द्रियाणि च पार्धिकद्रव्यादनाते तु परिशुद्धास्सम्तः शरीरं पुष्णन्ति न ते शरीरोत्पादका इति आदौ शरीरोत्पादनकायें तदुत्पादकसामग्रीसम्पादनं विना कथं शरीरोत्पादनस्य आशयादीनां च सम्बन्धो घटते ? इत्यस्वरसादाह-शुक्रेति । शुक्रशोणितसनिपातो योनिः ॥ ५१ ॥ पुरुषजन्यं शुक्रम् । स्त्रीजन्यं शोणितम् । तयोर्हेतुभूतं योनिः । सानिपात्य संसर्गहेतृभूतात्मकं तयोस्सान्निपात्यमाभधीयते । शुक्रस्य सर्वदा बीजोत्पादकत्वं वक्तुमशक्यम् । किन्तु आशयाः परिशुद्धास्सन्तः तथा प्रजाजननहेतुभूता भवन्ति । स्त्रीजन्यशोणितस्यापि तथैव । योग्यकालस्त्रीपुरुषसंयोगव्यापारहेतुभूतदिव्ययोनिदृढतरसंपर्कात् बीजाधारप्रदेशो गर्भाशय इति तजनकत्वस्य च सुप्रसिद्धत्वात् । योनावेव सत्वः गर्भस्सन् तदनन्तरं गर्भाशयं प्रविश्य विवर्धत इत्यर्थः । ननु अस्मिन्कार्य आशयाः परिशुद्धा भवन्तु । तद्वारा शुक्रशोणिते अपि परिशुद्ध च तयोरेव बीजात्मकत्वात् । कथं तदेधते ? कथं विवर्धते ? कथं चेष्टाश्रयं चलनात्मकं चेति वक्तुं शक्यते? इत्यस्वरसादाह-योन्यामिति । योन्यामाविरभूदजो विधिचोदितः ।। ५२ ॥ अजो जीवात्मा योनि प्रविश्य गर्भाशये आविरभूत् अदृश्यत। " रेतोमात्रं विजहति । योनि प्रविशदिन्द्रियं गर्भो जरायुवृतः। उल्बं जहाति जन्मना । ऋतेन सत्यमिन्द्रियम् ।" इति श्रुतेर्विद्यमानत्वात् । । ननु शुक्लशोणितसन्निपाते पिण्डे सत्वं प्रविश्य गर्भाशये यस्थितं तदेव शरीरम् । लक्षणं तु “पञ्चभूतात्मकं शरीरम्" For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy