________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
76
आयुर्वेदसूत्रे
maan
भावः प्रतिपादितः । मातापित्रोश्च शरीरविषयकशास्त्रविज्ञानजन्यकर्मणः फलं शरीरावयवदाधकरणसामग्रीसम्पादनानुभवावयवावयवित्वं सम्पद्यते । तयोः स्त्रीपुरुषयोश्शुक्लं चार्तवं च तौ तथाभूतौ गर्भाशये पिण्डत्वेन प्रतिष्ठितौ । ताभ्यामेव बीजात्मकाभ्यामावकारभूताभ्यां प्रजाजननहेतुभूताभ्यां सत्वमाविर्भवति । तत्र शारीरवचनं--
शुद्ध शुक्रातवे सत्त्वः स्वकर्मक्लेशचोदितः । गर्भस्सम्पद्यते युक्तिवशादग्निरिवारणौ ॥ ननु आमयकारकसिरागतासृग्विमोचनमात्रेण शुक्लार्तवी परिशुद्धावित्युक्तम् । न तावन्मात्रेण सङ्गच्छतेऽनुष्टाशयः । अवि. रुद्धदोषशुद्धन्द्रियशुद्धानला एते वार्धिकद्रव्यादनाद्भाव्या एतसूत्रगतसिरागतदुष्टरक्तविमोचनमात्रादेव । इदानी शुक्रातवी बीजोत्पादकहेतुभूताविति पार्थिवद्रव्यादनं विना कथं भवेता. मित्यस्वरसादाह-शुद्धोत।
शुद्धाशयशुद्धदोषशुद्धानलशुद्धेन्द्रियगुणहेतुकपार्थिवद्रव्यैः प्रजाः प्रजायन्ते ॥ ५० ॥
वार्धिकद्रव्यादनादेव सर्वाशयाः परिशुद्धा भवन्ति । इन्द्रि याणि चाविकारदोषाणि । तथा पञ्चानिलाश्च पञ्च पाचपित्तानि चादुष्टास्सन्तः लघुगुणकारकवार्षिकद्रव्यादनाद्भवन्ति । किं च सात्विकद्रव्यादनं सात्विकगुणहेतुकम् । राजसद्रव्यादनं राजसगुणकारकम् । तामसद्रव्यादनं च तामसगुणकारकम् । वाधिकद्रव्यादनाजाताशयादिकं विना बीजोत्पादनं न भवतीत्यर्थः । - इदानीं शरीरजननकार्ये तत्प्रतिपादकसामग्री सम्पादनीया। सा आवश्यकी भवति। आशयाश्च दोषाश्च अनलाश्च
For Private And Personal Use Only