________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्नः
75
जाताजीर्णजन्यामयविकारो विरुद्धधातुप्रभवो भवति तत्र ते. नोचारितशब्दभेदात्सिरा विज्ञाय तत्स्थानगतवर्णविरुद्धमिदं वणमिति तद्वर्णजनकसिरास्थितिं विज्ञाय दोषधातगत्याऽमृग्विकारो यंत्र दृश्यते तत्र दुष्टाशयं विज्ञाय तत्तद्धेतुकसिराजलं च विज्ञाय तहेतुकृतामयाधिष्ठानस्थलं विज्ञाय सिरावेधनकर्मणां त तुजन्यामयो निवर्त्य इति “सिराहग्विभागविधि ज्ञात्वा घिः मोचयेत्” इति सूत्रमीरितमित्यर्थः । तत्सर्वमायुर्वेदद्वितीयप्रश्ने उक्तमित्यलमतिप्रसङ्गेन ॥
ननु प्रजाजननहेतुभूतं वार्धिकद्रव्यमेव भवति । इत्थमेव प्रथमसूत्रे प्रतिपादितम् । यावद्विकारो यत्र दृश्यते तदानीमेव तन्निवर्तकेन स निवर्तितो भवतीति प्रतिपादितम् । याव द्विकारेऽपि लवनेनैव निवर्तत इति कथं प्रतिपादितम् ? कथमेतत्सिरासृग्विमोचनेन कार्यमित्यस्वरसादाह-नीरुजेति ।
नीरुजावयवादीहशौ पितरौ ॥ ४९ ॥
तयोश्च सर्वावयवाः पुष्टास्सन्तः प्रजोत्पादका भवन्तीति तेषामवयवानां रक्तधातुविकारे सात प्रतिबन्धकं भवति । तदविकारकरणार्थमयं विधिरिति. तथा मातापित्रोरवयवाः अविकारफलं प्रयच्छन्तीति सूत्रमीरितम् ।
प्रसन्नवर्णेन्द्रियमिन्द्रियार्थान् इच्छन्त इत्याहतरक्तवगम् ।
सुखान्वितं पुष्टिबलोपवर्ण विशुद्धरक्तं पुरुष वदन्ति । एतद्वचनानुसारेण पुरुषपदं मिथुनोपयोगिपदप्रतिपादकत्वात स्त्रियमपि विषयीकरोति, प्रजाजनने उभयोरपि संयोगस्य हेतुत्वात् । ननु पूर्वोक्तरीत्या अरोगकार्यजन्यफलप्रदानमेव सिरा. सृग्विमोचनकर्मणः प्रयोजनमित्मुक्तम् । एतेन तयोः कार्यकारण
For Private And Personal Use Only