SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 आयुर्वेदसूत्रे रोग-नेत्ररोग-कर्णरोग-मुखरोग-नासिकारोग-जिह्वारोग-कण्ठरोग बाहुरोग-हृत्कुक्षिरोग-अजीर्णाग्निमान्द्यादिरोग-गुल्मरोग-मेहरोगप्रहण्यतिसाराशेरोग-श्वासरोग-रोमराजिप्रदेशोद्भवशोभपाण्डुरोग-अण्डजातरोग-जंघाजानुरोग-श्रोणिकटिप्रदेशोत्थितरोगबोध कसिरा एव तत्तत्प्रदेशेषु व्याधीन्संसृज्य तत्तत्पदेशस्थितसिरा एव व्याधीन् ज्ञापयितुं पवनगत्या तावत्सिरा एवं तत्तयाधिलक्षणानि विज्ञापयन्ति । तत्तद्रोगहेतुभूतविरसादनात् कलादविल्यात् आमप्रकोपे सति तत्तद्रसाभिवर्धकरसा एव तत्तद्रोगनिर्वर्तका इत्याशयं मनसि निधाय "तास्सिरा मर्माश यगाः” इत्याह । ननु अष्टनवतिसिरास्सप्तशतसिरा रिक्तातिरिक्तातिपूर्णास्सिरा न वेध्या इति प्रतिपादितम् । इदानीं सर्वरो. गेषु तत्तद्विधिचोदितसिरागतासग्विमोचनमेव रोगनिवर्तकसामप्रीति तत्कार्यापेक्षितत्वात् वेधार्हसिराणां प्रतिपादनं युक्तम् । तारिसराः कीदृशाः ? तज्ञानानन्तरं तत्प्रतिपादकं तदेव ज्ञातुमावश्यकमित्यस्वरसादाह-सिरोति । सिरासृग्विभागविधि ज्ञात्वा विमोचयेत्॥४८ सिरागतासृग्विमोचनमात्रविधिः । काश्चिदवेध्याः । तस्मात् वेध्यावेध्यत्वप्रतिपादनकर्मणः प्रस्तुतत्वात् तत्तत्सिरागतासृग्गतकार्यस्य तत्सिरागतासृग्गतरोगस्य निवृत्त्यर्थं सिरासृविमोचन कुर्यादित्यर्थः । न च तत्तद्रोगनिवृत्त्यर्थं तद्धे तुकसिराभेदनं अवसरत्वात् मर्मस्थानाधिष्ठितसिराव्यतिरेकेण तद्धेतुकसिभिदवि. ज्ञानविषयकशानं प्रहीतुमशक्यमिति वाच्यम् । यत्र विरुद्धरसादनात् जाताजीर्णजन्यामया एव दोषविकारगतयो भवन्तीति तस्माद्दोषपचनपर्यन्तं लङ्घनं कार्यमिति । यत्र विरुद्धरसादना For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy