________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्न:
71
रिक्तातिरिक्तातिपूर्णास्सिरा न वेध्याः ॥ ४६॥
रिक्तास्सिरा ह्रस्ववर्णोच्चारणहेतुभूताः । अतिरिक्तास्सिरा (दीर्घ) वर्णोश्चारणहेतुभूताः । अतिपूर्णास्स्वरास्स्वरितप्लुतवर्णोचारणहेतुभूताः।
ननु तत्र सप्तशतसिराणां मध्ये अष्टाशीतिसिरा वर्णोत्पादकहेतुभूताः ह्रस्वसंयोगोचारणहेतुभूततत्तद्वेधविज्ञानविषयकक्षानविषयानुभवप्रमापदवृत्तिनिमित्तकाः सुस्वराः अष्टाशीतिसिराजन्यपदविषयकप्रवृत्तिहेतुभूतत्वात् । ता न वेध्या इति ब्रमः । हस्ववर्णानामधोमुखास्सिराः तजनकहेतुभूताः सिरा रिक्ताः । अतिरिक्तास्सिराः संसर्गवर्णोत्पादकवक्रमार्गगाः । अतिपूर्णाः सिरा गतागतोद्वोधकप्रवर्तकपवनगतकार्यानुकूलसुस्वराः प्लुताश्व । तासां करणत्वं प्रतिपादितम् । करणस्य क्रियाविशेषवैलक्षण्यद्योतककार्यहेतुभूतत्वात् । सप्तशतसिराणां मध्ये अष्टानवतिसिराः सरन्ध्रकाभ्यन्तरधराः । ता एव रिक्तातिरिक्तातिपूास्सिरा न वेभ्याः। कस्य चिदेहभेदेन अष्टानवतिसिराः। काश्चित्सरन्ध्रकाभ्यन्तरधराः । सर्वेषामेकप्रकारकवर्णोत्पादकवर्णसमूहपदजन्यवाक्यानां तत्तच्छरीरावच्छेददर्शनात् । सप्तशतसिराणां मध्ये तादृशा एव नोत्पादका इति व्यवच्छेत्तुं वक्तुमशक्यत्वात् । तत्तच्छरीररूपविचित्रस्वरशब्दज्ञानविषयकः आत्मा प्रतिशरीरं भिन्नः सुखदुःखादिवैचित्र्यादिभेदेनोपलभ्यमानत्वात् शब्दस्वरविचित्रवर्णाङ्गभेदद्रव्यगुणाधारकत्वात् । तस्मा. त्परोदोधकत्वसर्ववर्णप्रदात्मकानां ते वैचित्र्योपलम्भकत्वात् । सतशतसिराणां अवेधकत्वं वक्तुं विधेयाः सर्ववर्णानां भेदोदोधकाः । तस्मात्सप्तशतसिराणामधोमुखत्वं प्रतिपादितमित्यर्थः ।
For Private And Personal Use Only