________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
आयुर्वेदसूत्रे
प्रतिगादितम् । ननु सिराणां शरीरयन्त्रधारणप्रयोजककार्यहेतुकत्वं ब्रमः । सशब्दोत्पादककार्यहेतुभूतत्वस्य अन्यथासिद्धत्वात्। दोषगतिप्रकोपेन च रोगसम्भवात् । तथा हि विरुद्धरसादनादजीणे सति यावत्कारणाधिक्यजाताः तत्तद्रोगकार्यहेतुकाः स. शब्दापलम्भकान्यहेतुकाः । तत्तद्रोगनिवृत्यर्थ तत्तत्प्रदेशसिराग तासृग्विमोचनेन तत्तद्धेतुभूतरोगनिवर्तनस्य दृष्टत्वात् । सिरान्यगतरोगस्य तनिष्ठासृग्विमोचननिवर्तककार्यस्य कार्यकारणभावः सूच्यते। करणस्य क्रियाविशेषवैलक्षण्यमात्रप्रतिपादकत्वात् । तत्र वचनम्---
सिराविधिशल्यावधिश्शस्त्रक्षाराग्निकर्म च । इति । सूत्रवचनस्य सिरासृविमोचनरूपकार्यप्रतिपादकत्वाश न ते शब्दजन्यकार्यहेतुका इति । अत्रोच्यते-विरुद्धरसादनाजातरोगनिदानभूतलक्षणात्तत्तत्सिराप्रबोधकवर्णनिष्ठविकारविरुद्ध स्वराघोषवर्णात्मकानि लिङ्गानि विज्ञाय तत्तद्रोगनिवृत्त्यर्थं तत्ततिसरागतदुष्टरक्तविमोचममात्र एव चरितार्थत्वात् । तस्मानान्यथासिद्धिरित्यर्थः ।
ननु वर्णप्रबोधकसिराः सप्तशतसङ्ख्याकाः । ता एव मर्मस्थानभूताः आवेध्या इत्युक्तम् । यत्र यत्र विकारे जाते तत्तप्रदेशस्थितसिरासृग्विमोचनं कर्तव्यमित्युक्तम् । . शिरोनेत्रविकारेषु ललाट्यां मोचयेत्सिराम् । इत्यादिवचनानि बहूनि सन्ति । तत्तद्वचनानुसारेण तत्तत्पदे. शस्थितसिरा धेध्याः । वेधार्हसिराणामवेधकत्वप्रतिपादनपर सिरास्यसूत्रं व्यर्थ स्यादित्यस्वरसादाह --रिक्तति ।
For Private And Personal Use Only