SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्नः 69 कार्य वर्णोचारणहेतुपूर्वकं तत्तवर्णग्रहणोकलाषोडशकैकफलमात्रकार्यत्वात् श्रोत्रान्तस्स्थितसिरासंबन्धकरणेन ग्रहणीकलायाः शब्दबोधककार्यहेतुकत्वं व्यपदिश्यत इत्यर्थः । पादपनमारभ्य कर्णशकुलीकृतपद्मपर्यन्तस्थितवर्णानां श्रोत्रान्तस्थितसिरासंबन्धकार्यकारणं सप्तशतसत यापूर्वकानां सिराणां आवेध्यत्वं विधिरिति ज्ञाप्यते । किं च दहधारकाष्टाशीतिसिरा न वेध्याः सिरासङ्कीर्णग्रन्थिकृतश्चद्रवक्रग्रन्थिषु स्थिताश्च रक्तविमोचनकरणे न योग्या इत्यर्थः । ग्रहणीकलायाः रोगाभावकार्यहेतुकत्वं अविरुदरसादनाजातकर्मानुसारेण पाचकपित्ताख्या ग्रहणीकला वातपित्तकफैर्जुष्टानुवाधिकानुस्वारान् सवर्णान् सुबलान् अकारादिक्षकारान्तवर्णान् स्वस्य चापरस्य च बोधयितुं समर्था भवन्तीत्यर्थः॥ यदि विरुद्धरसादनाजाताजीर्णात् अनिलोऽजीर्णः तथा सति दोषगतयो विरुद्धा विकारकाः सत्यः शरीरं पीडयन्ति । यत्तवुद्धोधकं रसादनानुसारेण विरुद्धबोधकत्वं विवर्णशापकत्वं अबलत्वं स्वरहीनत्वं तत्तद्वणेषुपलभ्यते । तत्तद्वाधिष्ठितस्थलं विकारभूतमिति विज्ञाय तत्तनिवर्तककार्यकरणं विधिरिति । येनारोग्यं भवेद्यस्य भवेद्यत्तद्वलं तथा । तदेव भेषजं सौख्यं भवेत्तेनैव तत्तदा ॥ इति उक्तत्वात् । येन केन प्रकारेण तनिवर्तनं कारयेदिदित्यर्थः । श्रोत्रोपलब्ध्रवर्णात्मकशब्दः सिरान्यदोषगतिक्रियाजन्यहेतुवत् अन्याहेतुकत्वे सति तद्धे तुजन्यत्वात् घटवत् । एतदनुमानेन सर्ववर्णात्मकशब्दानां सिरान्यदोषगतिक्रियाजन्यत्व भासत । त्रयाणां कारणत्वं सङ्ग्रे सवं शक्तिः न स्वकैकस्यति For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy